|
|
səhifə | 9/16 | tarix | 02.11.2017 | ölçüsü | 3,53 Mb. | | #26878 |
| [¤ 72]
इन्द्रदैवत्यादथर्वणवेदाद् ब्रह्मदैवत्य ऋग्वेदोऽधिकस्ततो विष्णुदैवत्यो यजुर्वेदोऽधिकतरस्ततो रुद्रदैवत्यः सामवेदोऽधिकतम इति सिद्धम्656 । ननु यजुर्वेदाधिपस्य सत्त्वगुणस्य विष्णोरेव श्रैष्ठ्यं वक्तुमुचितम् । तदुपेक्ष्य सामवेदाधिपस्य रुद्रस्य तमोगुणविशिष्टस्य कथमाधिक्यं विष्ण्वपेक्ष-योक्तमिति । नचैवं वक्तुमुचितम् । रुद्रस्य तमोगुणत्वेऽपि सत्त्वमूर्त्तित्वा-`न्महाब्राह्मणमीशानमुपगच्छेत्सदा द्विज' इति पराशरपुराणे [REF???] ब्राह्मणत्वेन स्तवनाद् ब्रह्मणा सृष्टस्य विष्णुना पालितस्य जगतः संहारकर्तृत्वात्सूतसंहितादिपुराणग्रन्थेषु [REF???] रुद्रस्यान्तःसत्त्वगुणत्व-श्रवणादन्तस्तमोगुणबहिःसत्त्वगुणविष्ण्वपेक्षयासत्त्वलेशवर्जितोभयतोरजो-गुणब्रह्मापेक्षयाचरुद्रस्याधिक्यं निर्विवादमिति सिद्धम् । किं च पराशरपुराणे [REF???] इन्द्रादिदेवानां शूद्रजातित्वं ब्रह्मणो वैश्यत्वं विष्णोः क्षत्रियत्वं रुद्रस्य ब्राह्मणत्वं महता प्रबन्धेन प्रपञ्चितम् । तथा सूतगीतायामपि [REF???] ब्रह्मा बहिश्चान्तश्च रजोगुणो विष्णुः सत्त्वगुणस्तमोमूर्ती रुद्रस्तमोगुणः सत्त्वमूर्तिः । उभयतो रजोगुणत्वात् सत्त्वलेशाभावादीश्वरत्वं ब्रह्मणो नास्ति।
[¤ 73]
अत एव ऋषयो ब्रह्मश्रैष्ठ्यं प्रति न विवदन्ते । विष्णोश्च रुद्रस्य च बहिःसत्त्वान्तःसत्त्वगुणाभ्यामीश्वरत्वं तयोः सर्वसंमतम् । विष्णुरुद्रभिन्नानां ब्रह्मादीनां नेश्वरत्वं किं तु देवतात्वमेव । अत एव शिवविष्णुश्रैष्ठ्यं प्रति विवदन्त ऋषयः । तत्र657 मूर्तिप्राधान्यवादिनः शिवस्याधिक्यं वर्णयन्ति । गुणप्राधान्यवादिनस्तु विष्णोराधिक्यं । केचिदुभयोः साम्यं वर्णयन्ति । समप्राधान्यवादिनो बहवस्त्वभेदमेव तयोर्वर्णयन्ति । अत एव वेदव्यासेनापि शिवपुराणादिषु [REF???] विष्ण्वपेक्षया शिवाधिक्यं, विष्णुपुराणादिषु [REF???] शिवापेक्षया विष्णोराधिक्यं, भारतरामायणादिषु658[REF???] तयोः स्थलविशेषे साम्यं क्वचिच्च तयोरैक्यं समासतो विस्तरतश्च वर्णितम्। सूतगीतायां [REF???] तु सत्त्वगुणविष्ण्वपेक्षया659 सत्त्वमूर्ते रुद्रस्यैवाधिक्यं वर्णितम्660। मूर्तिः शरीरं देहो विग्रह इत्यनर्थान्तरम् । रुद्रस्तु सर्वदा सत्त्वमूर्तिः सन्वर्तते661 तमोगुणं कदाचिदेव संहारकाले स्वीकरोति । विष्णुस्तु सर्वदा तमोमूर्तिः सत्त्वगुणं स्थितिकाले स्वीकरोति ।
[¤ 74]
श्वेतवर्णस्य सत्त्वगुणत्वं रक्तपीतादीनां रजोगुणत्वं नीलश्यामकृष्णादीनां तमोगुणत्वं662 सर्वशास्त्रप्रसिद्धम् । रुद्रस्तु शुद्धस्फटिकसंकाशः । अत एव सत्त्वमूर्तिः । विष्णुर्नीलमेघश्यामः । तस्मात्तमोमूर्तिः । ब्रह्मणो रक्तवर्णत्वाद्रजोमूर्तित्वम् । सृष्टिरपि रजोगुणतः। ब्रह्मणः सत्त्वा-भावादनीश्वरत्वम्663 । गुणस्तु मायिकान्तःकरणवृत्तिविशेषः । स कदा-चित्त्यक्तुं स्वीकर्तुमपि शक्यः । मूर्तिस्तु यावदधिकारं त्यक्तुमशक्या664 । तस्माद्विष्ण्वपेक्षया665 रुद्र एव वरिष्ठ इति महता प्रबन्धेन प्रतिपादितम्। शिवविष्णुपुराणरामायणभारतादिवाक्यतात्पर्यमेव संगृह्य प्रतिपादितम्666। तद्वाक्यानां बहुत्वाद् ग्रन्थविस्तरभयाच्च तान्यत्र नोदाहृतानि ।
[¤ 75]
ननु कासुचिदुपनिषत्सु [REF???] भविष्योत्तरपुराणादिषु [REF???] गायत्रीहृदयादिषु [REF???] च यजुर्वेदस्य रुद्रदैवत्यत्वं सामवेदस्य विष्णुदैवत्यत्वं667 च दृश्यते । इति चेत्सत्यं, दृश्यते, तथापि न काप्यनुप-पत्तिः। उभयोः शिवविष्ण्वोरीश्वरत्वाविशेषात् तयोरभेदस्यापि वेदव्यासेन प्रतिपादनात्तयोः सत्त्वगुणसंबन्धाच्च । ऋग्वेदस्य तु ब्रह्मदैवत्यत्वं सर्वश्रुतिस्मृतिपुराणेषु प्रसिद्धं दृश्यते । एवं सति यदा ब्रह्मणः प्राथम्यमात्रेण शिवविष्ण्वपेक्षयाऽऽधिक्यं सिध्यति तदा ऋग्वेदस्याधिक्यं प्राथम्यमात्रेण सिध्यति ।
[¤ 76]
किं च शाखाभेदाल्पत्वबहुत्वविवक्षयाऽपि668 न्यूनाधिक्यभावः पुराणेषु व्यासादिभिर्वेदानां प्रदर्शितः [REF???]। नवाथर्वणशाखा एकविंशति-र्बह्वृचशाखा669 एकशतमध्वर्युशाखाः सहस्रं सामशाखा इति । पूर्वोत्तर-मीमांसाप्रवर्तकाचार्यैरप्येकविंशतिं बह्वृचशाखा इत्यादिवाक्यं संगृहीतम् [REF???]। तस्मादृग्यजुःसाम्नां `यथोत्तरं670 मुनीनां प्रामाण्य'मितिवाक्य-वदुत्तरोत्तराधिक्यं सिद्धम् [REF???] ।
[¤ 77]
ननु पूर्व`मृग्वेद एवाग्नेरजायते' [AB 25.7] त्यादिवाक्यानि प्रस्तुतानि । तेषां वाक्यानां विचारो न कृत इति चेत्तान्यपि वाक्यानि विचार्यन्ते । सर्ववेदेषु `अग्नेरृग्वेदः प्रादुर्भूतो वायोर्यजुर्वेद आदित्यात्सामवेद' [cf. AB 25.7, CU 4.17.2], `ऋचामग्निर्दैवतं यजुषां वायुः साम्नामादित्य' [GB, Pūrvabhāga, 1.29] इति वाक्यानि दृश्यन्ते । निरुक्तकारैर्यास्कैरपि `अग्निः पृथिवीस्थानो वायुर्वेन्द्रो वाऽन्तरिक्षस्थानः सूर्यो द्युस्थान671' [NR 7.4] इत्यु-क्तम्। श्रुतिरपि `य॒मः पृ॑थि॒व्या वा॒युर॒न्तरि॑क्षस्य॒ सूˇर्याए॑!213993 दि॒व' [TS 3.4.5.1] इति यमस्याग्नेः पृथिव्यधिपतित्वं वायोरन्तरिक्षस्याधिपतित्वं सूर्यस्य दिवोऽधिपतित्वं चाह । यस्योः672 सकाशादृग्वेदः प्रादुर्भूतः सोऽग्निर्वायोः प्रादुर्भूतः । `वायोरग्निः । अग्नेराप' [TU 2.1] इति श्रुतेः । `यजुर्वेदो वायो'रिति [AB 25.7] श्रुत्या वायोर्यजुर्वेदस्य प्रादुर्भावः स्पष्ट एव । अत एव गोपथब्राह्मणेऽपि673 `ऋचामग्निर्देवतं674 यजुषां वायुर्देवत675'मिति [GB, Pūrvabhāga, 1.29] श्रूयते । ऐतरेयब्राह्मणेऽपि [AB 40.5] `अथातो ब्रह्मणः परिमर' इत्युपक्रम्य `अयं वै ब्रह्म योऽयं पवत' इति वायोर्ब्रह्मत्वं प्रतिपाद्य `विद्युद् वृष्टिश्चन्द्रमा आदित्योऽग्नि'रित्यारभ्य वृष्टौ विद्युल्लयं वृष्टेश्चन्द्रमसि चन्द्रमस आदित्ये आदित्यस्याग्नौ अग्नेर्वायौ लयापरपर्यायं प्रवेशं प्रतिपाद्य पुन`स्ता वा एता देवता अत एव पुनर्जायन्ते वायोरग्निर्जायत' इत्यारभ्याग्न्यादिविद्युदन्तानां पञ्चदेवतानां वायौ प्रादुर्भावे676 लयविपरीतक्रमेणाभिधाय `स एष ब्रह्मणः परिमर' इति परिमरविद्यामाख्यायिकामुखेन677 प्रशस्य तस्या व्रतादिकमुपदिश्य ततो विद्याफलं द्विषन्नाशनरूपं678 प्रदर्श्योपसंहृतम् । तथैवैतरेयारणेऽपि679 `एष पन्था एतत्कर्मे'ति [REF???] ब्रह्मविद्यां प्रकृत्य तस्या अत्यन्तमन्तरङ्ग-साधनं प्राणदर्शनं680 महता ग्रन्थेना`त्मा वा इदमेक एवाग्र आसी'दित्यन्तं विस्तरेणोक्तम् । एवमेव बृहदारण्यके [REF???] छान्दोग्ये681[REF???] प्रश्नोपनिषदि [REF???] कौषीतकीयारणे682[REF???] मैत्रायणीयोपनिषदि [REF???] च683 प्राणवायूपासनं विस्तरेणोक्तम् । अग्नेरपि सर्वदेवतात्वं तदुपासनं च बहुधा श्रूयते तथापि तस्य वायोरुत्पत्तिर्वायावेव लयश्च सर्ववेदेषु श्रूयते । किं च पुरुषसूक्तेऽपि `मुखादिन्द्रश्चे'ति [REF???] विराट्पुरुषस्य कर्मेन्द्रियस्थान्मुखादिन्द्राग्नी प्रादुर्भूतौ अथर्वणवेदऋग्वेदा-धिपौ । `चक्षोः सूर्यो अजायते'ति तस्य चक्षूरूपाज्ज्ञानेन्द्रियात् सामवेदाधिपः सूर्य उत्पन्नः। `प्राणाद्वायुरजायते'ति तस्य प्राणाद्यजुर्वेदाधिपो वायुः प्रादुर्भूतः । किं चैतरेयब्राह्मणे `अग्निरेव पृथिव्या अजायत वायुरन्तरिक्षादादित्यो दिव' [REF???] इत्यग्निवाय्वादित्याना684मृग्यजुःसाम-देवतानामुत्पत्तिस्थानान्युक्तानि पृथिव्यादीनि । तेषामुत्पत्तिः पुरुषसूक्त एव685 श्रूयते । `नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत । पद्भ्यां भूमि'रित्यादि विराजः परमेश्वरस्य पाद686नाभिशिरोभ्यो भूम्यन्तरिक्षद्युलोका687 उत्पन्ना इति ।
[¤ 78]
किं च च्छन्दोगब्राह्मणे संवर्गविद्यायामपि वायावेवाग्न्यादिचतुर्णां लय एवं688 श्रूयते । `वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति वायुमेवाप्येति, यदा सूर्योऽस्तमेति वायुमेवाप्येति, यदा चन्द्रोऽस्तमेति वायुमेवाप्येति, यदाप उच्छुष्यन्ति689 वायुमेवापियन्ति, वायुर्ह्येतान्सर्वान्त्संवृक्त इत्यधि-दैवतमथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः प्राणो ह्येवैतान्त्सर्वान्त्संवृक्त इति तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेष्वि'ति [CU 4.3.1-4] ।
[¤ 79]
ननु वायोरग्निर्जायते । `आकाशाद्वायुः । वायोरग्नि'रित्यादिश्रुत्या [TU 2.1] भवत्वग्नेर्वायौ लयः सूर्यचन्द्रापां690 कथं वायौ लय इति चेन्न । सूर्य-चन्द्रयोरप्यग्निवत्तेजस्त्वाविशेषात्691 तयोस्तत्र लयो युक्त एव । वायौ सर्वशोषणसामर्थ्यस्य दृश्यमानत्वात् । अपामपि तत्र लय उपपन्न एव । किं च बृहदारण्यकेऽपि वायोरेव सूत्रात्मत्वं प्रतिपादितम् । तथा हि । `स होवाच वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि692 भवन्ती'ति [BU 3.7.2]। तस्मादग्निदेवताकादृग्वेदाद्वायुदेवताको यजुर्वेदोऽधिको वा न वेति निर्मत्सरा वेदतात्पर्यकुशलाः693 पण्डिता विचार्य संतुष्टा भवन्तु ।
[¤ 80]
ननु यथा संवर्गविद्याया694मग्निब्राह्मणे चाग्नेर्महिमा दृश्यते । एवं सति कथमग्नेर्वायोराधिक्यं तद्दैवत्यस्य695 यजुर्वेदस्य वेति । न चैतच्चोद्यं696 समञ्जसम् । पञ्चाग्निविद्यायां त्वेवं श्रूयते । `असौ वाव लोको गौतमाग्निः' [CU 5.4.1], `पर्जन्यो वाव गौतमाग्निः'ˇ697[CU 5.5.1], `पृथिवी वाव गौतमाग्निः' [CU 5.6.1], `पुरुषो वाव गौतमाग्निः'698[CU 5.7.1], `योषा वाव गौतमाग्नि'रिति [CU 5.8.1] द्युलोकपर्जन्यपृथिवी-पुरुषयोषित्सु अग्निदृष्टिः699 कर्तव्या । द्युलोकादियोषिदन्ताः700 पञ्च पदार्था अग्नित्वेनोपास्या इति द्युलोकादीनामेव प्राधान्यं तत्र नाग्नेः701 । अग्नि702ब्राह्मणेऽपि `यो वा अग्निमृतुस्थां वेदर्तुरृतुरस्मै कल्पमान एति प्रत्येव तिष्ठति संवत्सरो वा अग्निरृतुस्थास्तस्य वसन्तः शिरो ग्रीष्मो दक्षिणः पक्षो वर्षाः पुच्छँ!220584 शरदुत्तरः पक्षो हेमन्तो मध्यं पूर्वपक्षा-श्चितयोऽपरपक्षाः पुरीषमहोरात्राणीष्टका' [REF???] इत्यादिना प्रतिष्ठाफलार्थमिष्टकाभिः पक्ष्याकारेण703 चीयमानोऽग्निः संवत्सरादिकाल-रूपेणोपास्यस्तस्याग्नेर्वसन्तादयः शिरआद्यवयवविशेषा इति प्रतिपादितम् । नैतावताऽग्नेर्वायुतुल्यत्वं वाय्वाधिक्यं704 वा705 सिध्यति । पञ्चाग्न्युपासन-स्येष्टकाभिश्चीयमानाग्नेः कालरूपेणोपासनस्य च संपद्रूपत्वात् । संवर्ग-विद्योक्तवायूपासनस्य तु विशिष्टक्रियानिमित्तत्वेन मुख्यत्वात्तयोः साम्यं न सिध्यति । किं च श्रुतिस्मृतिपुराणवाक्यपर्यालोचनायां706 वायो-रग्नेरुत्पत्तिर्वायावेवाग्नेर्लयश्च श्रूयते । तस्माद्यथा वायोराधिक्यमग्न्यपेक्षया तथा तद्देवताकस्य यजुर्वेदस्यापि ऋग्वेदादाधिक्यं707 सिद्धमेवेति ज्ञेयम् ।
[¤ 81]
सामवेदस्य तु `वेदानां सामवेदोऽस्मी'ति [REF???] भगवद्वाक्याद्, `वेदानां तु यथा सामे'ति [REF???] पुराणवचनाच्च सर्ववेदाधिक्यं सिद्ध-मेव। तस्मादथर्वणवेदादृग्वेदोऽधिकस्ततो यजुर्वेदस्ततः सामवेद इति निर्वि-वादम् । पूर्वं तैत्तिरीयस्य यजुर्वेदस्य सर्वापेक्षतयाऽऽधिक्यं708 प्रतिपादितम् । इदानीं तु सामवेदाधिक्यप्रतिपादनात्709 पूर्वोत्तरग्रन्थविरोध इति नाशङ्कनीयम् । कर्मकाण्डविषये यजुर्वेदस्यैव प्राधान्यमुपासनाप्राधान्यं साम-वेदस्येत्यविरोधः । कथमेतदवगम्यत इति । उच्यते । कर्मकाण्डविषये यजुर्वेदस्य प्राधान्यं माधवाचार्यप्रभृतिभिरसकृत्प्रतिपादितम् [REF???] । अत्राप्यसकृदुक्तम् । श्रीमच्छङ्करभगवत्पादैरप्यानन्दवल्लीभाष्ये710`तस्य यजुरेव शिरो' [REF???] यजुरित्यनियताक्षरपादावसानोमन्त्रविशेषः तज्जातीयवचनोयजुःशब्दस्तस्यशिरस्त्वंप्राधान्यात्। प्राधान्यं च यागादौ संनिपत्योपकारात् । यजुषा हि हविर्दीयते स्वाहाकारादिने'ति प्रतिपादितम्। `आदिने'ति पदं वषट्कारस्वधाकारनमस्कारहन्तकाराणा-मप्युपलक्षकम् । तेषामपि यजुष्ट्वाविशेषात् ।
[¤ 82]
सामवेदस्योपासनाप्राधान्यं तैरेव च्छान्दोग्यभाष्ये नृसिंहपूर्वतापिनीभाष्ये सहस्रनामभाष्ये गीताभाष्ये च प्रकटीकृतम्711 । तथा हि `ओमित्येतदक्षर-मुद्गीथमुपासीते'त्यारभ्य [CU 1.1.1] ओङ्कारस्योद्गीथावयवत्वं प्रतिपाद्य तत `एषां भूतानां पृथिवी रसः पृथिव्या आपो रसोऽपामोषधयो रस ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः साम्न उद्गीथो रसः । स एष रसानां रसतमः परमः परार्ध्य'712 इति सामावयवस्योद्गीथस्य रसतमत्वं प्रतिपाद्य ततः पञ्चमे खण्डे `अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ' [CU 1.1.2-3] इति सामावयवस्योद्गीथस्य प्रणवाभेदः प्रतिपादितः । ततोऽष्टमखण्डे नवमे च `त्रयो होद्गीथे कुशला' [CU 1.8.1] इत्यारभ्य `का साम्नो गति' [CU 1.8.4] रित्यादिबहुप्रकारं गतीर्विचार्य `आकाश इति713 होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणं स एष परोवरीयानुद्गीथः स एषोऽनन्त' [CU 1.9.1-2] इति सामावयव-स्योद्गीथस्याकाशगतित्वं निर्णीतम् । अत्रत्याकाशशब्दो न भूताकाशपरः । किं तु परब्रह्मपरः । यतो भाष्यकारैरेवा`काशस्तल्लिङ्गादि'[BS 1.1.22]त्यधिकरणे714 इदमेव वाक्यमुदाहृत्य प्रसिद्धं715 भूताकाशमिति पूर्वपक्षीकृत्य लिङ्गाद् ब्रह्मैवाकाश716 इति सिद्धान्तितम् । तत एकादशे खण्डे सामावयवप्रस्तावोद्गीथप्रतिहारसंज्ञकभक्तिविचारे717 प्रस्तावभक्तेः प्रस्तोत्रा `कतमा सा देवते'ति [CU 1.11.4] पृष्टे उषस्तिश्चाक्रायणः718 `प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति719 प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ते'ति [CU 1.11.5] प्रस्तावदेवता परं ब्रह्मेति720प्रतिपादितवान् । अत्रत्यप्राणशब्दोऽपि ब्रह्मपरोनशरीरान्तर्विद्यमानवायुपरः721।`अतएव प्राण' [BS1.1.23] इत्यधिकरणे भाष्यकारैरिदमेव वाक्यमुदाहृत्य पूर्ववत् प्राणपदं लिङ्गाद् ब्रह्मपरमित्युक्तम् । एवमुद्गीथप्रतिहारदेवतयोरादित्यान्नयोरपि ज्ञेयम्। ततश्चरमखण्डे `अयं वाव लोको हा उकार' इत्यारभ्य सामावयवानां हाउ हाइ अथ इह ई ऊ ए औहोयि हिं स्वरः यावाक् हुप् [CU 1.13.1] इति त्रयोदशस्तोभोपलक्षितसर्वस्तोभानामपि722 भूर्लोकवायुचन्द्रात्माग्न्यादित्यादि-देवतात्वं प्रतिपादितम् । मध्ये उद्गीथाक्षराणामपि `प्राण एवोत्723, वाग्गीः724, अन्नं थम्725, द्यौरेवोत्, अन्तरिक्षं गीः, पृथिवी थम्, आदित्य एवोत्, वायुर्गीः, अग्निस्थम्, सामवेद एवोत्, यजुर्वेदो गीः, ऋग्वेदस्थ'मिति [CU 1.3.6-7] बहुप्रकारमुपासनं तत्फलं च बहुधा प्रपञ्चितम् ।
[¤ 83]
एवं प्रथमेऽध्याये सामावयवानामुपासनान्युक्त्वा द्वितीयाध्यायेऽपि सामोपासनमनेकधा प्रतिपादितम् । तथा हि । `तत्रादौ समस्तस्य खलु साम्न उपास न्ँ साध्वि'ति [CU 2.1.1] साम्नः साधुत्वमुक्त्वा ततो `लोकेषु पञ्चवि ध्ँ सामोपासीते'त्यादि [CU 2.2.1] साम्नां पञ्चभक्तिकत्वं726 `पृथिवी हिंकारोऽग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधन'मित्येवंप्रकारेण [CU 2.2.1] बहुतरं प्रतिपाद्य ततोऽ`थ727सप्तविधस्य वाचि सप्तवि ध्ँ सामोपासीते'त्यारभ्य [CU 2.8.1] सप्तभक्तिकत्वं साम्नां प्रतिपादितम् । सप्तभक्तिकेष्वादिरुपद्रव728इति729भक्तिद्वयमधिकमन्यत्पूर्वोक्तमेवेति730ज्ञेयम् । आदिरुद्गीथात्731 पूर्वमुच्चार्यमाणः प्रणव एवेति ज्ञेयम् । उपद्रवस्तु प्रतिहारभक्त्य-नन्तरमुद्गात्रोच्चार्यमाणो732 भक्तिविशेषः । आदिभक्त्युपद्रवभक्त्यो-रुद्गात्रोच्चार्यमाणत्वात्तयोरप्युद्गीथेऽन्तर्भावतया पञ्चविधत्वं भिन्नतया सप्तविधत्वमित्यविरोधः । हिंकारो नाम स्तोत्रारम्भे प्रस्तावभक्तेः पूर्वं प्रस्तोत्रोच्चार्यमाणो हुं इति भक्तिविशेषः । `यत्किं च वाचो हुं इति स हिंकार' इति श्रुतेः [CU2.8.1]। दाक्षिणात्यास्तु `वाचो हिं' इत्येव पठन्ति । गुर्जरास्तु `हुं' इति विवेकः । ततः प्रस्तावभक्तिः प्रस्तोत्रोच्चार्यमाण-स्तत आदिरुक्तलक्षणः733।ततउपद्रवभक्तिरुक्तलक्षणस्ततस्स्तोत्रान्तेसर्वैरुच्चार्यमाणो निधनभक्तिः । क्वचित्सामविशेषेषु मध्येऽपि निधनभक्तिर्दृश्यते । तस्या अन्तर्निधनमिति च्छन्दोगानां व्यवहारः734।एवं सप्तभक्तिकसामनिरूपणानन्तरं `मनो हिंकार' [CU 2.11.1] इत्यारभ्य गायत्ररथन्तरवामदेव्यबृहद्वैरूपवैराजशाक्वररैवतयज्ञायज्ञीयराजनाख्यसाम्नां प्राणाग्निमिथुनादित्यपर्जन्यर्तुलोकपश्वङ्गदेवतासु प्रोतत्वं तदुपासकानामनुरूपं फलं735 चोपदिष्टम्। तत`स्त्रयी विद्या हिंकारस्त्रय इमे लोकाः स प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि व याँ!228329सि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः पितरस्तन्निधनमेतत्साम सर्वस्मिन्प्रोतम् । स य एवमेतत्साम सर्वस्मिन्प्रोतं वेद सर्वँ!228367 ह भवति । तदेष श्लोको यानि पञ्चधा त्रीणि त्रीणि तेभ्यो न ज्यायः परमन्यदस्ति । यस्तद्वेद स वेद सर्वँ!228405 सर्वा दिशो बलिमस्मै हरन्ति सर्वमस्मीत्युपासीत तद्व्रतं तद्व्रत'मिति [CU 2.21.1-4] सामसामान्योपासनं736 फलं व्रतं चोपदिष्टम् । ततोऽग्नेरुद्गीथोऽनिरुक्तः737 प्रजापते'रित्यादि [CU 2.22.1] मृदुश्लक्ष्णबल-वत्क्रौञ्चादीनि बहुविधानि सामस्वरलक्षणानि देवतारूपाण्युक्तानि । ततोऽ-`मृतत्वं738 देवेभ्य'739[CU 2.22.2] इत्यारभ्य सामगानेन देवादीनाममृत-त्वादिफलप्राप्तिमभिधाय सामगातुः740 `अप्रमत्तः स्तुवीते'ति [CU 2.22.2] प्रमादवर्जनं चोक्त्वा ततः `सर्वे स्वरा इन्द्रस्यात्मान' [CU 2.22.3] इत्यादिना सामसु741 विद्यमानस्वराणामूष्मणां स्पर्शानां च क्रमेणेन्द्रप्रजापतिमृत्युरूप-मभिधाय742 स्वरादिषूपालब्धुरिन्द्रादिभ्यः सकाशात् तस्यानर्थप्राप्तिमुक्त्वा743 तत`स्त्रयो धर्मस्कन्धा' [CU 2.23.1] इत्यस्मिन्खण्ड उद्गीथावयवत्वेन स्तुतस्योंकारस्य सर्ववाक्स्वरूपत्वं सर्वजगद्रूपत्वं744 चाभिधाय ततः खण्डद्वयेन चत्वारि वासवरौद्रादित्यवैश्वदेवसंज्ञकानि लोकद्वारसामानि745 यागकर्तुः स्वर्गसाधनान्यभिहितानि । एवमेव महाब्राह्मणापर-पर्याये ताण्डिब्राह्मणे षड्विंशब्राह्मणे च सामप्रशंसापराणि वाक्यानि सन्ति बहूनि । तान्यत्र विस्तरभयान्नोदाहृतानि ।
Dostları ilə paylaş: |
|
|