|
|
səhifə | 6/16 | tarix | 02.11.2017 | ölçüsü | 3,53 Mb. | | #26878 |
| [¤ 39]
ननुसारस्वतपाठेन314तैत्तिरीयशाखायाःको विशेषः सम्पन्न इति चेदुच्यते। काण्डे काण्डान्तररूप315 इति । इदं कुत्र दृष्टमित्युच्यते । तित्तिर्याचार्यकृतकाण्डानुक्रमणिकायां316 यजुर्वेदस्य पूर्वमेव मन्त्रब्राह्मण-काण्डव्यामिश्रत्वं सारस्वतपाठात् काण्डान्तराव्यामिश्रत्वं317 च सविस्तर-मभिहितम् । तत्पूर्वाचार्यैर्व्याख्यातं च । तदेव प्रतिपाद्यते । `पुरो-डाशीयमध्वरो ग्रहा' इत्युपक्रम्यै`तावत्तित्तिरिः318 प्रोवाचे'त्यन्तं क्रमेण चतुश्चत्वारिंशत्काण्डान्युक्त्वा ततः पर`मथाष्टौ काठकानी'त्यारभ्य `स्वा-ध्यायब्राह्मणमष्टम'मित्यन्तं319 सावित्राद्यष्टकाण्डान्युदाहृत्य ततः पर`मथैते श्लोका' इति प्रतिपद्य यजुर्वेदस्य काण्डानुक्रमसमाप्तिपर्यन्तं श्लोकरूपेण ऋष्यादिकं सर्वमभिहितम्320 । यजुर्वेदस्य च्छन्दसां321 प्राधान्याभावा-च्छन्दांसि नोदाहृतानि322। देवतास्तु तत्तन्मन्त्रप्रतिपाद्याः पलाशशाखा वत्सगवादयः प्रसिद्धा एवेति नोक्ताः । तत्र मध्ये मध्ये ऐष्टिकं याजमानं323 तद्विधिर्वाजपेयस्ततस्तद्विधी राजसूयोऽग्निस्तद्विधिः प्रवर्ग्यस्तद्विधिरित्यादि तत्तत्क्रतुविधिकाण्डान्यपि पठितानि । ततः परं नवानां काण्डानां प्रजा-पतिरृषिः नवानां सोमः सप्तानामग्निः324 षोडशानां विश्वेदेवा उपनिषदां तिसॄणां सांहित्यो याज्ञिक्यो वारुण्यो देवता उपनिषद ऋषयः सावित्रादि325पञ्चाग्निकाण्डानांहव्यवाडग्निः तदिष्टि326काण्डयोर्विश्वेदेवाःस्वाध्यायब्राह्मणस्य स्वयंभूः एकाग्निकाण्डस्य विश्वेदेवा इति त्रिपञ्चाश-त्काण्डात्मको यजुर्वेदः । तन्मन्त्रद्रष्टार ऋषयस्त्वष्टसंख्याका एव । एतत्सर्वमभिधाय ततः परं
`काण्डशेषान् यथाकाण्डं विदध्यात्तु विचक्षणः ।
यथा सारस्वते पाठे327 ज्ञानमात्रमिहोच्यते' ॥ इत्युक्तम्
[KN, Adhyāya 2, verse 9] । पुरोडाशादिकाण्डे वर्तमानान् याज्यादिकाण्डगताननुवाकान् विचक्षणोविचारकुशलोऽस्यकाण्डस्यायं शेष इति जानीयात् । काण्डानुक्रमप्रकारेणेति328 शेषः । अध्ययनं तु सारस्वतपाठानुसारेणैव कर्तव्यम् । अन्यथा फलाभावात् । तस्माद्यजुर्वेदस्येतरवेदवत्पूर्वंमन्त्रभागा329स्ततःपरं ब्राह्मणभागा330 इत्यव्यामिश्रता नास्ति । अत एवास्य वेदस्य त्रैगुण्यमुपपन्नतरम्331 ।
[¤ 40]
ननु `एतावत्तित्तिरिः332 प्रोवाचे'ति पूर्वमुक्तत्वात् अस्या333 अनु-क्रमणिकायास्तित्तिर्याचार्यप्रणीतत्वात्तैत्तिरीयशाखाया334 एवैतदुक्तं सर्वं लक्षणादिकमस्तु न तु मुख्ययजुर्वेदस्य इति चेत् उच्यते । अस्या एवोपसंहारे एवमभिहितम् ।
`वैशम्पायनो यास्कायैनां शाखां प्राह पैङ्गये 335।
यास्कस्तित्तिरये प्राह उखाय336 प्राह तित्तिरिः' ॥ इति ।
[KN 3.13]।
किं च फलवाक्यमपि ।
`एतानृषीन्यजुर्वेदं यः पठन्वेद वेदवित् ।
ऋषीणामेति सालोक्यं स्वयम्भोश्चैति साम्यताम्337'॥ इति ।
[KN 3.22]।
वैशम्पायनो यजुर्वेदाचार्य एव व्यासात्प्राप्तामिमां शाखामादौ यास्काय पैङ्गये338 प्राह । पिङ्गापत्यायेति विशेषणम् । ततो यास्कस्तित्तिरये तित्तिरिरुखायेति। तस्मात्तैत्तिरीयशाखा339 मुख्यो यजुर्वेदः सिद्धः । अत एव फलवाक्ये `यजुर्वेदं पठन्वेदे'त्युक्तं तदपि सङ्गतम् । मुख्ययजुर्वेदस्यापि तित्तिरिरूपेण गृहीतत्वात्340 तैत्तिरीयशाखेति नैमित्तिकं नाम सम्पन्नमिति ज्ञेयम्। `यस्यां पदकृदात्रेयो वृत्तिकारस्तु कुण्डिन' इति [KN 3.15] पदक्रमकर्तारौ ऋषी ज्ञेयौ।
[¤ 41]
ननु तित्तिरि341रूपेण ग्रहणानन्तरं भवतु तैत्तिरीयशाखेति नाम तत्पूर्वं342 मुख्यस्यैव यजुर्वेदस्य शाखेति व्यवहारः कथमिति । नैष दोषः । एकस्य वेदवृक्षस्य ऋग्यजुःसामाथर्वाख्याश्चतस्रः शाखा द्वापरादौ व्यासेन कृता इति विष्ण्वादिपुराणेषु343 चतुर्णामपि वेदानां शाखाव्यवहारो दृष्ट इति । तथाहि।विष्णुपुराणे तृतीयेंऽशे तृतीयाध्याये मैत्रेयप्रश्नानन्तरं पाराशर344 आह।
`वेदवृक्षस्य मैत्रेय शाखाभेदः सहस्रशः345।
न शक्यो विस्तराद्वक्तुं संक्षेपेण शृणुष्व तद्'॥ इति ।
[REF???]
एकस्य वेदवृक्षस्य ऋग्वेदादयश्चतस्रः शाखास्तद्भेदाः सहस्रश इत्यर्थः । चतुर्थाध्याये तु यजुर्वेदस्य प्राधान्यमुक्तम्।
`एक आसीद्यजुर्वेदस्तं346 चतुर्धा व्यकल्पयत् ।
चातुर्होत्रमभूद्यस्मिंस्तेन यज्ञमथाकरोत्347 ॥
आध्वर्यवं348 यजुर्भिस्तु ऋग्भिर्हौत्रं तथा मुनिः ।
औद्गात्रं सामभिश्चक्रे ब्रह्मत्वं चाप्यथर्वभिः349 ॥
ततः स ऋचमुद्धृत्य ऋग्वेदं कृतवान्मुनिः ।
यजूंषि च यजुर्वेदं सामवेदं च सामभिः ॥
राज्ञस्त्वथर्ववेदेन सर्वकर्माणि स प्रभुः ।
कारयामास मैत्रेय ब्रह्मत्वं च यथाविधि ॥
सोऽयमेको महान्वेदतरुस्तेन पृथक्कृतः ।
चतुर्धाऽथ ततो जातं वेदपादपकाननम्' ॥ इत्यादि ।
[REF???]
पञ्चमाध्याये ।
`यजुर्वेदतरोः शाखाः सप्तविंशन्महामतिः350 ।
वैशम्पायननामाऽसौव्यासशिष्यश्चकार ह॥
शिष्येभ्यः प्रददौ ताश्च जगृहुस्तेऽप्यनुक्रमात्351।
याज्ञवल्क्यस्तु तस्याभूद्देवरातसुतो नृप ॥
शिष्यः परमधर्मज्ञो गुरुवृत्तिरतः सदा352 ।
ऋषिर्योऽद्य353 महामेरौ समाजेनागमिष्यति ॥
तस्य वै सप्तरात्रात्तु ब्रह्महत्या भविष्यति ।
पूर्वमेवं मुनिगणैः समयो यः354 कृतो द्विज355 ।
वैशम्पायन एकस्तु तं व्यतिक्रान्तवान्द्विजः ॥
स्वस्रीयं356 बालकं सोऽथ पदा स्पृष्टमघातयत् ।
चरध्वं मत्कृते सर्वे न विचार्यमिदं तथा ॥
अथाह याज्ञवल्क्यस्तं किमेभिर्भगवन्द्विजैः ।
क्लेशितैरल्पतेजोभिश्चरिष्येऽहमिदं व्रतम् ॥
ततः क्रुद्धो गुरुः प्राह याज्ञवल्क्यं महामतिम्357 ।
मुच्यतां358 यत्त्वयाऽधीतं मत्तो359 विप्रावमानतः ॥
निस्तेजसो वदस्येतान्यस्त्वं360 ब्राह्मणपुङ्गवान्361 ।
तेन शिष्येण नार्थोऽस्ति ममाज्ञाभङ्गकारिणा ॥
याज्ञवल्क्यस्ततः प्राह भक्त्यैतत्ते मयोदितम्362 ।
ममाप्यलं त्वयाऽधीतं गृहाणैतदिदं363 द्विज' ॥
[REF???]
पाराशर364 उवाच ।
`इत्युक्त्वा रुधिराङ्गानि365 सरूपाणि366 यजूंषि सः ।
छर्दयित्वा ददौ तस्मै ययौ च स्वेच्छया मुनिः॥
यजूंष्यथ निसृष्टानि याज्ञवल्क्येन वै द्विज ।
जगृहुस्तित्तिरा भूत्वा तैत्तिरीयास्तु ते तत367' ॥ इति
[REF???]
प्रथमं तैत्तिरीयशाखायाः368 प्रादुर्भावः ।
[¤ 42]
एवमेव भागवते द्वादशस्कन्धे वेदविभागप्रकरणे प्रथमं तैत्तिरीयशाखोत्पत्तिरभिहिता । तथा हि ।
`यजूंषि तित्तिरा भूत्वा तल्लोलुपतया ददुः ।
तैत्तिरीया इति यजुःशाखा आसन्त्सुपेशला' ॥ इति ।
[REF???]
अत्र श्रीधरस्वामिनैवं369 व्याख्यातम् । छर्दितस्यादानं विप्ररूपेणानुचितमिति तित्तिराः पक्षिविशेषा370 भूत्वा 371आददुस्ततस्तैत्तिरीया इति प्रसिद्धाः । सुपेशला अतिरम्या इति । एवं बहुषु पुराणेषु द्रष्टव्यम्।अत्र केषाञ्चिन् मूर्खाणामेवं मतिरुत्पद्यते। किमिति । याज्ञवल्क्येन च्छर्दितत्वात् तैत्तिरीयशाखाया अशुचित्वमिति तन्निराकरणाय भगवता व्यासेनैव सुपेशला इत्युक्तम् । पेशलशब्दो रम्यवाची372 । सु इत्युपसर्गस्यातिशयत्वं प्रसिद्धम् । तस्मात्प्राथम्येन प्रादुर्भूताया अत्यन्तं शुचित्वं सिद्धम् । अमूर्तस्य वेदस्य त्यागग्रहणादिकं सर्वमर्थवाद इति ज्ञेयम् ।
तदनन्तरं वाजसनेयिशाखोत्पत्तिप्रकारमाह ।
`याज्ञवल्क्योऽपि मैत्रेय प्राणायामपरायणः ।
तुष्टाव प्रणतः सूर्यं यजूंष्यभिलषन्मुनिः' ॥ [REF???]
भागवतेऽपि
`याज्ञवल्क्यस्ततो373 ब्रह्मंश्छन्दांस्यधिगवेषयन् ।
गुरोरविद्यमानत्वात्सूपतस्थेऽर्कमीश्वरम्' ॥ इति । [REF???]
भगवता व्यासेन वैशम्पायनाय कृत्स्नोयजुर्वेदःसमर्पितः। विभज्य नोक्तः। अत एव वैशम्पायनादन्यत्र यजुर्वेदाभावात् गुरोरविद्यमानत्वादिति भगवद्व्यासवचनं संगतम् । ततः परं `नमः सवित्र' इत्यादिस्तोत्रेण सूर्यस्तुष्टः। भागवते तु `ॐ नमो भगवत' इत्यादिना ।
`इत्येवमादिभिस्तेन स्तूयमानः स्तवै रविः ।
वाजिरूपधरः374 प्राह व्रियतामभिवाञ्छितम् ॥
याज्ञवल्क्यस्ततः प्राहप्रणिपत्यदिवाकरम्।
यजूंषि तानि मे देहि यानि सन्ति न वै गुरोः' ॥ [REF???]
पराशर उवाच375।
`एवमुक्तो ददौ तस्मै यजूंषि भगवान् रविः376 ।
अयातयामसंज्ञानि यानि सन्ति न वै गुरोः ॥
यजूंषि तैरधीतानि377 तानि विप्रैर्द्विजोत्तमैः378 ।
वाजिनस्ते समाख्याता अश्वः सूर्योऽभवद्यतः ॥
शाखाभेदास्तु तेषां वै दश पञ्च च वाजिनाम् ।
काण्वाद्यास्तु379 महाभागा याज्ञवल्क्यप्रवर्तिता' ॥ इति ।
[REF???]
भागवतेऽपि ।
`एवं स्तुतः स380 भगवान् वाजिरूपधरो381 हरिः ।
यजूंष्ययातयामानि मुनयेऽदात्प्रसादतः ॥
यजुर्भिरकरोच्छाखा दश पञ्च च तैर्विभुः382 ।
जगृहुर्वाजिसन्न्यस्ताः काण्वा माध्यन्दिनादयः'383॥ इति ।
[REF???]
अस्यार्थः। `अयातयामानि अन्यैर्यथावदविद्यमानानि यजूंषी'ति श्रीधर-स्वामिभिर्व्याख्यातम् ।
[¤ 43]
अत्र केचन पण्डिता आख्यायिकातात्पर्यमेवं384 वर्णयन्ति । याज्ञ-वल्क्येन385 गुरुनिकटे यदा वेदः परित्यक्तस्तदा `ब्रह्मोज्झंसुरा -पानमि'त्यादिस्मृतिषु वेदत्यागस्य महापातक386समत्वश्रवणात्तद्युक्तो याज्ञ-वल्क्य इति मत्वा सूर्योऽपि सात्त्विकं देवतारूपं राजसं मानुषरूपं च परित्यज्य तामसं तिर्यग्रूपं387 स्वीकृत्य याज्ञवल्क्याय यजूंषि दत्तवानिति । अन्ये तु इतरमुन्यपमानपरित्याग388रूपदोषद्वयग्रस्तत्वादश्वरूपेण दर्शनं दत्त्वा तेनैव वेदमपि दत्तवानिति389 । अन्ये तु त्यक्तवेदस्य तपस्यनधिकारात्390 तमोरूपं तपः कृतमिति मत्वासूर्योऽपितमोरूपेणप्रादुर्भूयत्रिगुणरूपंमुख्ययजुर्वेदंनदत्तवान्। `अन्ये शाखान्तराः स्मृता' इत्युक्तलक्षणं शाखा-न्तररूपं दत्तवानिति । ततः परं याज्ञवल्क्यस्तैर्यजुर्भिः पञ्चदश शाखाः कृत्वा काण्वादिभ्यः पञ्चदशमुनिभ्यः391 प्रायच्छदिति । अश्वरूपेण वाजेभ्यः केसरेभ्यो वाजेन वेगेन वा संन्यस्तास्त्यक्ताः शाखा वाजसनेयि392संज्ञास्ताः शाखा इति श्रीधरव्याख्या । पूर्वं विष्णुपुराणवाक्यमपि `याज्ञवल्क्यप्रवर्तिता' इति । इति वाजसनेयिशाखोत्पत्तिः393 ।
[¤ 44]
चरकशाखोत्पत्तिमाह भागवते ।
`वैशम्पायनशिष्या वै चरकाध्वर्यवोऽभवन्394 ।
यच्चेरुर्ब्रह्महत्यांहःक्षपणं395 स्वगुरोर्व्रतम्' ॥ इति । [REF???]
विष्णुपुराणेऽपि
`ब्रह्महत्याव्रतं चीर्णं गुरुणा396 चोदितैस्तु यैः ।
चरकाध्वर्यवस्ते तु चरणान्मुनिसत्तम' ॥ इति । [REF???]
व्रतचरणाच्चरका इत्यर्थः । मैत्रायणीयाः कठाः श्वेताश्वतरा एते चरका एवेति ज्ञेयम् । विष्णुपुराणे तैत्तिरीयशाखायाः पूर्वं प्रादुर्भावस्ततः परं चरकाणाम् । ततो वाजसनेयिनां प्रादुर्भाव397 इति क्रमः । भागवते तु पूर्वं चरकाणां ततस्तैत्तिरीयाणां ततो वाजसनेयिनामिति भाति । चरणव्यूहे तु पूर्वं चरकाणां सप्तदश भेदा उक्ताः । ततो वाजिनां398 पञ्चदश भेदाः । ततस्तैत्तिरीयाणां षट् भेदा उक्ताः । तत्र399 उत्पत्तिक्रमविवक्षा नास्ति । किन्तु बाहुल्यविवक्षया पूर्वं चरकभेदकथनं ततो वाजिनां तत-स्तैत्तिरीयाणामिति ।अन्यथा सर्वपुराणविरोधापत्तेः।
[¤ 45]
सर्वत्र पुराणादिष्वेवं श्रूयते । यदा वैशम्पायनस्य ब्रह्महत्या दैवादागता तदोवाच वैशम्पायनः कांश्चिच्छिष्यानेतद्दोषक्षपणं व्रतं कुरुध्वमिति । तदा याज्ञवल्क्येनोक्तमेतैरल्पतेजोभिः400 कृतेन किमहमेक एव दोषक्षपणं व्रतं चरिष्यामीति । ततो गुरुर्वैशम्पायनो याज्ञवल्क्याभिमानपरिहाराय वेदं त्यजेत्याह । याज्ञवल्क्योऽपि बहुब्राह्मणापमानप्रयुक्तं स्वापराधमजानं-स्तपोऽभिमानतया401 सहसा वेदं परित्यज्य गतः । ततस्तित्तिरिरूपेण वेदो यैर्गृहीतस्ते तैत्तिरीया इति प्राथम्यं तैत्तिरीयशाखायास्तन्मध्ये ये व्रतं चेरुस्तेचरका इति केचन पण्डिता वर्णयन्ति । तद्भिन्ना इत्यन्ये । संभवादुभयमपि साधु । ततो याज्ञवल्क्यो बहुकालं सूर्यमाराध्य दोषत्रयान्मुक्तोऽश्वरूपात्सूर्याद्यजूंषि शुक्लानि प्राप्तवानिति तच्छाखायाः सर्वानन्तर्यं सर्वशास्त्रसंमतम् । तेषां पञ्चदशानां कण्वशाखा मुख्या प्रथमा च । ततो माध्यन्दिनी तत इतरा इति सिद्धम् । एतत्सर्वं चरणव्यूहव्याख्याकारैर्बहुधा प्रपञ्चितम् । मध्याह्नेऽश्वरूपेण402 सूर्येण दत्तः शुक्लयजुर्वेदः । अथ वा403 वेदोपाकरणे चतुर्दशीयुक्तपौर्णिमाग्रहणाच्छुक्ल-यजुर्वेदः प्रतिपद्युक्तपौर्णिमाग्रहणात् कृष्णयजुर्वेद इति तत्रैव वर्णितमिति सर्वं शिवम् ।
[¤ 46]
कूर्मपुराणेऽपि यजुर्वेदस्य प्राथम्यमुक्तम् । `एक आसीद्यजुर्वेद' इत्यारभ्यश्लोकत्रयंविष्णुपुराणवत्पठितम्।ततःपरमेते श्लोकाः404
`एकविंशतिभेदेन ऋग्वेदं कृतवान्पुरा ।
शाखानां तु शतेनैव यजुर्वेदमथाकरोत् ॥
सामवेदं सहस्रेण शाखानां प्रबिभेद सः ।
अथर्वणमथो वेदं बिभेद कुशकेतनः405 ॥
भेदैरष्टादशैर्व्यासः पुराणं कृतवान्मुनिः ।
सोऽयमेकश्चतुष्पादो वेदः पूर्वं पुरातनः ।
ओङ्काराद् ब्रह्मणो जातः सर्वदोषविशोधनः'॥ इति
[REF???]
कूर्मपुराणश्लोकाः406 ॥ भेदैरष्टादशैरित्यष्टादशसंख्या देहलीस्थदीपन्यायेनाथर्वणवेदपुराणयोः प्रत्येकं सम्बध्यते । अन्यथाऽथर्वणः संख्याभेदो न स्यात् । तस्यापि प्रकृतत्वाच्चेति दिक् ।407
[¤ 47]
ननु पूर्वमज्ञानां वादिनां कलहनिवृत्त्यर्थं वेदविचारः प्रस्तूयत इति प्रति-ज्ञाय चतुर्णां वेदानां विषयविशेषतया प्रधानत्वमुपसर्जनत्वं च प्रतिपादितम्। तद्विषये श्रुतिस्मृतिवाक्यान्यप्युदाहृतानि । तत्तु समीचीनमेव । इदानींतु शाखाविषये कलह एव दृढीकृतः । कुतो दृढीकृत इति चेत् । तैत्तिरीयशाखायाः प्राथम्यमुख्यत्ववर्णनात्408 । अभ्यर्हितस्य सर्वापेक्षत्वात् सर्वैः सैव ग्राह्येति चेत्तदितरवाजसनेयिशाखाया अनवकाश एव स्यात् । तदिष्टापत्तौ तु ग्रन्थादौ कृता या409 प्रतिज्ञा तन्मूलोच्छेदप्रसङ्गः ।
[¤ 48]
इत्येवं प्राप्ते ब्रूमः410 । देश411जातिविशेषतया तयोः शाखयोः प्रधानत्व-मुपसर्जनत्वं च पूर्वाचार्यैर्यत्कृतं तदेव विशदीकुर्मः । तथा च महार्णवे
`पृथिव्या412 मध्यरेखा च नर्मदा परिकीर्तिता ।
दक्षिणोत्तरयोर्भागे शाखाभेदश्च वक्ष्यते413 ॥१॥
नर्मदादक्षिणे भागे त्वापस्तम्ब्याश्वलायनी414 ।
राणायनी पैप्पलादी415 यज्ञकन्याविभागिनः ॥२॥
माध्यन्दिनी सांख्यायनी416 कौथुमी शौनकी तथा ।
नर्मदोत्तरभागे तु417 यज्ञकन्याविभागिनः ॥३॥
तुङ्गा कृष्णा तथा गोदा सह्याद्रिशिखरावधि ।
आन्ध्रदेशाच्च418 पर्यन्तं बह्वृचश्चाश्वलायनी ॥४॥
उत्तरे गुर्जरे देशे वेदो बह्वृच ईरितः ।
कौषीतकि419ब्राह्मणं च शाखा सांख्यायनी420 स्मृता ॥५॥
आन्ध्रादिदक्षिणाग्नेये गोदासागरसङ्गमे421 ।
यजुर्वेदस्तैत्तिरीयो ह्यापस्तम्बी422 प्रतिष्ठिता423 ॥६॥
सह्याद्रिपर्वतारम्भाद्दिशां नैरृत्यसागरात्424 ।
हिरण्यकेशी शाखा तु परशुरामस्य सन्निधौ425 ॥७॥
मयूरपर्वताच्चैव यावद्गुर्जरदेशतः ।
व्याप्ता426 वायव्यदेशे तु मैत्रायणी प्रतिष्ठिता ॥८॥
[अङ्गवङ्गकलिङ्गाश्च कानीतो गुर्जरस्तथा ।
वाजसनेयिशाखा च माध्यन्दिनी प्रतिष्ठिता ॥९॥]427
ऋषिणा याज्ञवल्क्येन सर्वदेशेषु428 विस्तृता ।
वाजसनेयिवेदस्य429 प्रथमा काण्वसंज्ञिता ॥१०॥ इति430 ।
[REF???]
[¤ 49]
एतेषां श्लोकानामर्थः स्पष्ट एव तथापि किंचिद्वक्ष्यते । प्रथमपद्ये नर्मदायाः पृथिवीमध्यरेखात्वं कथमिति नाशङ्कनीयम् । कुतः । यत्र ब्राह्मणाः पञ्चद्राविडाः पञ्चगौडा वेदशास्त्रसंपन्नाः श्रौतस्मार्तकर्मानुष्ठान-परा निवसन्ति तद्देशस्य पृथिवीशब्देन विवक्षितत्वात् नर्मदोत्तरभागे उत्तरसमुद्रपर्यन्तायाः पृथिव्या बाहुल्येऽपि न विरोधः । द्वितीयश्लोके तुआपस्तम्बीपदंतत्प्रधानीभूततैत्तिरीयशाखोपलक्षकम्।अन्यथाबौधा-यन431हिरण्यकेश्यादीनां बह्वृचादिभिः सह यौनश्रौतमखसम्बन्धाभावापत्तेः। नर्मदादक्षिणभागे आपस्तम्बाश्वलायनराणायनीय432पैप्पलादसंज्ञकाः क्रमेण यजुर्वेदऋग्वेदसामवेदाथर्ववेदाध्यायिनः परस्परं यज्ञकन्यासम्बन्धिन इति संपिण्डितोऽर्थः433। तृतीये तु माध्यन्दिनीपदेन434 काण्व्यपि435 गृह्यते। सांख्या-यनी ऋक्शाखा । कौथुमी सामशाखा। शौनकी अथर्वशाखा। अन्यदृजु436। अवशिष्टेषु सप्तसु श्लोकेषु निरुक्तानामेव विशेषविचारः कृतः । तत्तात्पर्यं संक्षिप्य वर्ण्यते ।
[¤ 50]
सह्याद्रिशिखरादुत्पन्नगोदाकृष्णातुङ्गभद्रानदीतीरस्थमहाराष्ट्रदेशे तु आश्वलायनशाखिनां बह्वृचानां बाहुल्यम् । नर्मदोत्तरे गुर्जरदेशे च सांख्यायनशाखिनां कौषीतकि437ब्राह्मणाध्येतॄणां बाहुल्यम् । उत्तरदेशे कौषीतकि438ब्राह्मणप्राधान्यादर्थाद्दक्षिणदेशे ऐतरेयब्राह्मणाध्ययनं तत्प्राधान्यं च सिद्धम्। निरुक्तनदीतीरस्थान्ध्रदेशे तथाग्नेयादिदिक्स्थद्राविडदेशे439 च तैत्तिरीययजुर्वेदस्यापस्तम्बसूत्रस्य बाहुल्यं । सह्याद्रिनिकटस्थसमुद्रतीरे440 परशुरामसन्निधौ हिरण्यकेशिशाखायाः441 प्राधान्यम् । मयूरपर्वताद्वायवीं442 दिशमारभ्य गुर्जरावधि मैत्रायणी443शाखा प्रधानभूता । अङ्गवङ्गकलिङ्गादिगौडगुर्जरदेशेषु वाजसनेयिशाखायाः प्राधान्यम्444 । तत्र काण्वी प्रथमा याज्ञवल्क्यप्रवर्तितेति445 संक्षेपः । यत्र यस्य बाहुल्यं तत्र तदन्यस्यार्थादल्पत्वमपि446 सिद्धम् । एवं च यथा चतुर्णां वेदानां विषयभेदेन प्राधान्यमुपसर्जनत्वं च सिद्धं तथा सर्वासां शाखानामपि447 ज्ञेयम् ।
Dostları ilə paylaş: |
|
|