|
|
səhifə | 7/16 | tarix | 02.11.2017 | ölçüsü | 3,53 Mb. | | #26878 |
| [¤ 51]
एवं सर्वाविरोधेन सर्ववेदप्राशस्त्ये सत्यपि ये केचिदनभिज्ञा मत्सरिणो वाऽन्योन्यं स्वस्वशाखाभिमानेन448 परशाखानिन्दका उपलभ्यन्ते ते पूर्वोदाहृतश्रुतिस्मृतितात्पर्यानभिज्ञाः पतितास्तत्तद्देशनिवासिभिर्विचारचतुरैः पण्डितैर्निर्मत्सरैर्यथाशास्त्रं449 शिक्षणीया450 एव । अन्यथा वेदमात्रस्य पर-ब्रह्मस्वरूपस्य निन्दयेहजन्मनि पातित्यं ततो नरकवासस्ततश्चाण्डालादि-जन्मेति451 बहवो दोषा वेदनिन्दकानां संभवन्ति। सति सामर्थ्ये तदुपेक्षकाणामपि विदुषामुपेक्षाप्रयुक्तः प्रत्यवायो भवति न वेति सुधियो विचारयन्तु ।
[¤ 52]
ननु पूर्वं `तस्माद्यज्ञात्सर्वहुत' [REF???] इत्यादिश्रुतिभिः परमेश्वरात् कल्पादौ वेदानां प्रादुर्भाव उक्तः । इदानीं तु तेषां परमेश्वरस्वरूपत्वं कथमिति । नैष दोषः । श्रुतिसद्भावात् । तथा हि `ओमित्यसौ सोऽसौ तपतीति । ओमिति ब्रह्म । ओमितीद ँ!159616 सर्व'मिति [REF???] । `सर्वो ह्ययं वेद । ओङ्कार एवैतत्प्रभव एतदात्मकः सर्वऋग्यजुःसामादिभेदभिन्न452 एष ओङ्कारः' [REF???] । `ओमित्येतदक्षरमिद ँ!159997 सर्वं तस्योपव्याख्यानमि'ति [REF???] । एवं सर्वासूपनिषत्सु कर्मकाण्डे च ओङ्कारस्य ब्रह्मत्वं सर्ववेदस्वरूपत्वं च श्रूयते । `सर्व ँ!160065 हेदं ब्रह्मणा हैव सृष्टम्' [REF???] । `स पूर्वया निविदा कव्यतापोरिमाः प्रजा अजनयन्मनूनामि'ति [REF???] मन्त्रौ वेदस्य सर्वस्रष्टृत्वमपि प्रतिपादयतः । किं च शङ्करभगवत्पादैरपि बृहदारण्यकभाष्ये सप्तमाध्याये [REF???] `ॐ खं ब्रह्मे'त्यादिबहुश्रुत्युदा-हरणपूर्वकमोङ्कारस्य ब्रह्मसामानाधिकरण्यं प्रतिपादितम् । किं च स्वाध्यायब्राह्मणे `ओमिति प्रतिपद्यत453 एतद्वै यजुस्त्रयीं विद्यां प्रत्येषा वागेतत् परममक्षरं तदेतदृचाभ्युक्तमृचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासत' इति454[REF???] ।
[¤ 53]
अत्र माधवीयं भाष्यम् [REF???] । `ओमिति प्रणवोच्चारणेनोपक्रमं कुर्यात् । ब्रह्मयज्ञस्य प्रकृतत्वात्तस्येत्यर्थः । योऽयमोमित्येवंरूपो यजुर्मन्त्रः स त्रयीं विद्यां प्रति वेदत्रयस्य455 प्रतिनिधिरूपः । अत एव प्रणवगतानाम-कारोकारमकाराणां456वेदत्रयरूपेणाध्ययनमाथर्वणिकाआमनन्ति । `तस्य ह वै प्रणवस्य पूर्वा मात्रा स पृथिव्यकारः457 स ऋग्भिरृग्वेदो या द्वितीयाऽन्तरिक्षं स उकारः स यजुर्भिर्यजुर्वेदस्तृतीया द्यौः स मकारः स सामभिः सामवेद' [NPTU, 2, NUTU, 3] इति458 । किं चैषा प्रणवरूपा सर्वा वागपि । अत एव च्छन्दोगा आमनन्ति । `तद्यथा शङ्कुना सर्वाणि459 पर्णानि संतृण्णान्येवमोङ्कारेण सर्वा वाक्संतृण्णे'ति460[CU 2.23.3] । अश्वत्थपत्रे दृश्यमानास्तन्तुसदृशा अवयवाः461 शङ्कवस्तैर्यथा कृत्स्नानि पर्णानि संतृण्णानि व्याप्तानि तद्वदोङ्कारेण सर्वाऽपि वाग्व्याप्ता । ऐतरेयब्राह्मणेऽपि प्रणवादेरकारस्यैव462 सर्ववाग्व्याप्तिमामनन्ति । `अकारो वै सर्वा वाक्सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवती'ति [Aâ 2.3.6]। अत एव मातृकामन्त्रेसर्वानपिककारादीन् वर्णानकारशिरस्कानेवपठन्ति। `एतद्ध्येवाक्षरं ब्रह्मैतद्ध्येवाक्षरं परमि'ति काठके [KthU 2.16]। तस्मात् प्रणवेनैव स्वाध्यायप्रारम्भो युक्तः । प्रणवप्रशंसामृचमवतारयति `तदेतदृचाभ्युक्तमि'ति । तदेतत्परं ब्रह्मस्वरूपं प्रणवाक्षरमृचा स्पष्टमुक्तम् । तामृचं दर्शयति ।
`ऋ॒चो अ॒क्षरे॑ पर॒मे व्यो॑म॒न्
यस्मि॑न्दे॒वा अधि॒ विश्वे॑ निषे॒दुः।
यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒
य इत्तद्वि॒दुस्त इ॒मे समा॑सते'463॥ [RV 1.164.39] इति ।
या एता ऋचस्ताः सर्वाः परमे उत्कृष्टे व्योमन्विशेषेण रक्षके अक्षरे प्रणवे निषेदुराश्रिताः । अत एव कठशाखायामधीयते ।
`सर्वे वेदा यत्पदमामनन्ति
तपा ँ!162619सि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति464
तत्ते पद ँ!162739 संग्रहेण ब्रवीम्योमित्येतद्'465॥ इति
[KthU 2.15]॥
न केवलमृच एव तस्मिन्प्रणवे समाश्रिताः किंतु सर्वे विश्वेदेवा अपि यस्मिन्प्रणवाक्षरे अधिनिषेदुः466 अधिकत्वेन निषण्णाः । अत एवोत्तरतापनीये देवानां परमात्मध्यानार्थं प्रणवपर्यवसानमुक्तम्467 । `आत्मानमनुष्टुभमन्विष्य प्रणवेनैव तस्मिन्नवस्थिता'468 इति । अनेनैव प्रकारेण ऋषयो देवाश्च यस्मिन्प्रणवे निषेदुः । तत्प्रणवाक्षरं यो न वेद स पुमानधीयानोऽप्यृचा किं करिष्यति न खलु फलरहितां केवलां कृषिं469 केचित्प्रार्थयन्ते । इत्येते पुनर्महात्मानस्तत्प्रणवाक्षरं विदुस्ते महर्षय इमे दृश्यमानाः470 परमहंसाः समासते सम्यगवतिष्ठन्ते471 । ऐहिकामुष्मिक-विषयक्लेशरहिताः सुखिनो वर्तन्ते । तांश्च परमहंसाञ्जाबालशाखाध्यायिन उदाहरन्ति । `तत्र परमहंसा नाम संवर्तकारुणिश्वेतकेतुदुर्वासऋभुनिदाघ-जडभरतात्रेयरैवतकप्रभृतय'472 इति [JblU 6]। इत्यनेन मन्त्रेण प्रशस्तत्वात् प्रणवस्य वेदत्रय-प्रतिनिधित्वमुक्तमिति ।
[¤ 54]
अथर्वशीर्षेऽपि `य ओङ्कारः स प्रणवो यः प्रणवः स सर्वव्यापी'ति [AŚU 3]। ओङ्कारो यजुर्मन्त्रः स एव प्रणवः स एव सर्वव्यापी परमेश्वर इत्यर्थः । तस्मादुक्तश्रुत्या यजुर्मन्त्रस्य प्रणवस्य परमेश्वरत्वं सिद्धम् । स्मृतावपि
`ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम्'॥ इति473
[BG 8.13]॥
एवं पुराणवाक्यान्यपि बहूनि सन्ति विस्तरभयान्नेहोदाहृतानि । किं च श्रीमच्छङ्करभगवत्पादैर्भाष्यकारैरपि`शास्त्रयोनित्वा'दित्यस्मिन्नधिकरणे[BS 1.1.3] `अस्य महतो भूतस्य474 निःश्वसित'मिति475[BU 2.4.10] श्रुत्या `तं त्वौपनिषदं पुरुष'मिति476[BU 3.9.26] श्रुत्या च परमेश्वरस्य वेदकर्तृत्वं वेदवेद्यत्वं च क्रमेण वर्णकद्वयेन477 प्रतिपादितम् । तस्मात्कारणानन्यत्वं कार्यस्येति न्यायाच्च वेदस्य परब्रह्मस्वरूपत्वे न कोऽपि विरोधः । `एक आसीद्यजुर्वेदस्तं चतुर्धा व्यकल्पय'दिति [REF???] विष्णुपुराणादिषु पूर्वमुक्तं यद्वाक्यं तदप्योङ्कारस्य यजुर्वेदत्वात्संगतमेव ।
[¤ 55]
एवमोङ्कारस्य यजुषः श्रुतिस्मृतियुक्तिभिः परमेश्वरत्वे सिद्धेऽपि केचिदन-र्थज्ञा वैदिका ऋक्शाखिनः सामशाखिनोऽथर्वशाखिनो वा स्वस्वशाखया478 निकृष्टत्वं यजुषां वदन्तः स्वोत्कृष्टत्वं वर्णयन्ति तेषां ब्राह्मण्यमस्ति न वेति विचारचतुराः पण्डिता एव निर्मत्सरतया विचारयन्तु । किं चोक्तन्यायेन भूरित्यादिसप्त479व्याहृतीना`मोमापो ज्योती रस' इति गायत्रीशिरसश्च480 स्वाहाकारवषट्कारस्वधाकारहन्तकाराणां481 क्रमेण देवपितृमनुष्यान्नरूपाणां वामदेवाय नम इत्यादि नमःशब्दघटितानां यावन्मन्त्राणामापः पुनन्त्वश्चि सूर्यश्चेत्यादिसंध्यावन्दनहोमदेवपूजाब्रह्मयज्ञ-सकल482होमतर्पणभोजनमन्त्राणामृक्साममन्त्रव्यतिरिक्तानां483 सर्वेषामनि-यताक्षराणां प्रायशस्तैत्तिरीयशाखायामेव484विद्यमानानांश्रुतिस्मृतियुक्तिभि-र्यजुर्मन्त्रत्वसिद्धेस्तद्वेदनिन्दकानां कथं वा ब्राह्मण्यसिद्धिः कुतो वा न पतितत्वमिति निरुक्ता एव सर्वशाखिनो विचार्य निरहङ्कारतया सुशीलाः सुमनसो भवन्तु ।
[¤ 56]
ननु सर्वशाखिनो विचार्येत्युक्तं तदसङ्गतं कुतो यजुर्भिन्नेतरशाखिनामेव यजुर्वेदापेक्षत्वात्485 । ननु वाजसनेयिनां मैत्रायणीयानां486 वा तैत्तिरीयापेक्षा तैत्तिरीयाणां वा तयोरपेक्षेति । अत्रोच्यते । भवतु तैत्तिरीयाणां सोमयागादर्वागितरानपेक्षा487 । तेषां स्वशाखायामेव सर्वश्रौतस्मार्तमन्त्राणां विद्यमानत्वात् । तैत्तिरीयभिन्नानां वाजसनेयिनां मैत्रायणीयानां च ऋक्सामाथर्ववेदिनामिव488 तैत्तिरीयापेक्षाऽस्त्येव । तयोरपि शाखयोर्यावदपेक्षितश्रौतस्मार्तमन्त्राभावात्489 । ननु तयोः शाखयोर्यजुर्वेदत्वाद्दर्शपूर्णमासादयःसर्वेक्रतवआम्नाताएव।कुतस्तयोरपिशाखयोस्तैत्तिरीयापेक्षेति । न चैवमुचितम् । यद्यपि निरुक्ता दर्शपूर्णमासादयोऽश्वमेधान्तास्तयोः शाखयोराम्नातास्तथापि490 तद्विकृतयः स्वर्गसत्रनक्षत्रसत्रादयोऽन्ये च बहवः काम्याः पशवो बह्व्यः काम्येष्टयश्च नाम्नाताः किं च प्रकृतिभूता अपि सावित्रनाचिकेतादयश्चितयोऽपि491 । निरुक्तानुष्ठानसिद्ध्यर्थं तयोरपि शाखयोस्तैत्तिरीयापेक्षा । किं चाद्यापि शिष्टा आहिताग्नयो वाजसनेयिनो मैत्रायणीयाश्च तैत्तिरीयशाखोक्तं स्वर्गसत्रादिकमनुतिष्ठन्ति तथा स्मार्तमपि492 सन्ध्यावन्दनादिकं कूश्माण्डगणहोमोदकशान्त्यादिकं सर्वेऽप्यनुतिष्ठन्त्येव । किं बहुना सर्वैरपेक्षणीयां तैत्तिरीयशाखामनादृत्य ब्राह्मणत्वावच्छेदेनाकरणे प्रत्यवायजनकानि नित्यानि प्रतिदिनं विहितानि षट्कर्माण्यपि न493 सिध्यन्ति ।
[¤ 57]
कानि तानि षट्कर्माणीति ।
`सन्ध्या स्नानं जपो होमो देवतानां च पूजनम् ।
आतिथ्यं वैश्वदेवं च षट्कर्माणि दिने दिने' ॥ [REF???]
इति पराशरोक्तानि ॥ स्मृत्यन्तरे `स्वाध्यायः पितृतर्पण'मिति द्वितीय- पादोऽभिहितः494 । तथापि न विरोधः । स्वाध्यायो ब्रह्मयज्ञः । पितृ-तर्पणमिति पितृपदेन देवपूजाप्युपलक्ष्यते । पराशरस्मृतौ तु जपशब्देनैव जपयज्ञापरपर्यायो ब्रह्मयज्ञोऽप्युपलक्षित इति ज्ञेयम् । अर्थात्तदङ्गं तर्पण-मप्युक्तमेवेति495 न विरोधः । ननु षट्कर्मणां496 कथं नित्यत्वं स्मृतिवाक्ये नित्यपदाश्रवणादिति चेन्न । `दिने दिने' इति वीप्साया नित्यत्व-बोधकत्वात् । कुत्र वीप्साया नित्यत्वमुक्तमित्यत497 आह माधवीये एका-दशीनिर्णये माधवाचार्यः -
`नित्यं सदा यावदायुर्न कदाचिदतिक्रमेत् ।
इत्युक्त्यातिक्रमे दोषश्रुतेरत्यागचोदनात् ।
फलाश्रुते498र्वीप्सया499 च तन्नित्यमिति कीर्तित'मिति ॥
[REF???]
नित्यान्यपि बहुविधानि । आह्निकपाक्षिकमासिकसांवत्सरिकादिभेदेन500 । तान्यपि प्रसङ्गादुदाह्रियन्ते। निरुक्तानि षट् कर्माण्य`हरहः सन्ध्यामुपासीत' । `शौचे यत्नः501 सदा कार्य' इत्यादिवाक्यादाह्निकानि502[REF???] । दर्शपूर्णमासेष्टिस्थालीपाकैकादश्युपवासादीनि पाक्षिकाणि503 । तेषां पक्षे पक्षे504 क्रियमाणत्वात् पाक्षिकत्वम्505 । तत्र `यावज्जीवं दर्शपूर्णमासाभ्यां यजेते'त्यादिश्रुतय506 उदाहरणीयाः। `मासि पितृभ्यः क्रियत' [REF???] इत्यादिश्रुत्या प्रतिमासमनुष्ठेयानि पिण्डपितृयज्ञदर्शश्राद्धादीनि मासिकानि ।प्रतिसंवत्सरं सोमः । `वसन्ते वसन्ते ज्योतिषा यजेत' [REF???] । `प्रत्यब्दं भूरिभोजनादि'त्यादिवाक्यात् [REF???] प्रतिसंवत्सरं क्रियमाणानि ज्योतिष्टोममातृपितृश्राद्धादीनि सांवत्सरिकाणि। आर्तवान्यपि507 कानिचिदाश्वलायनसूत्रे पठितानि508।
`वैश्वानरीं व्रातपतीं पवित्रेष्टिं तथैव च ।
ऋतावृतौ प्रयुञ्जानः पुनाति दशपूरुषम्'509 ॥ इति।
[REF???]
व्रातपत्यादीनि अनाहिताग्नीनां व्रातपत्यस्थालीपाकादयो विहिताः । `अथ काम्यानां स्थाने काम्या' [REF???] इत्याश्वलायनाचार्यैरुक्तत्वात् । बौधायनाचार्यैरपि [REF???] तथैवोक्तमिति ज्ञेयम् । आयनान्यपि कानिचिद् दृश्यन्ते510 । `पशुः प्रत्ययनं तथे'ति स्मृतेः [REF???] । `ऐन्द्राग्नेन पशुना षाण्मास्ये षाण्मास्ये यजेते'ति511 हिरण्यकेशिसूत्राच्च512[REF???] प्रत्ययन-मनुष्ठेयानि पशुबन्धादीनि उदग्दक्षिणायनप्रयुक्तस्नानादीनि सर्वसाधारणा-न्यप्यायनानि513 । कानिचित् सूर्यचन्द्रोपरागार्धोदयकपिलाषष्ठ्यादीनि514 कादाचित्कानि515 । पुत्रजन्मप्रयुक्तजातेष्टिजातकर्मगृहदाहप्रयुक्तक्षामवत्या-दीनिनैमित्तिकानिकानिचिद् विहितानि516 । किंबहुना यत्र यत्र माधवा-चार्योदाहृतं `नित्यं सदा यावदायु'रित्यादि [REF???] वीप्सान्तमष्टविधं नित्यत्वद्योतकं वाक्यं श्रुतिस्मृतिपुराणादिषु दृश्यते तत्सर्वं यथाकालं यथाशक्ति यथाधिकारं सर्वैरनुष्ठेयमित्यलं प्रसङ्गागतचिन्तया ।
[¤ 58]
प्रकृतमनुसरामः । पूर्वं तैत्तिरीयशाखिनां सोमादर्वाक्सर्वानपेक्षत्वं तदितरशाखिनां सर्वेषां स्नानसन्ध्याजपादिसिद्ध्यर्थं तैत्तिरीयापेक्षत्वं च प्रतिपादितम् । तत्रैवं वादिनः पूर्वपक्षयन्ति। किमर्थमस्माकं तैत्तिरीयापेक्षा। स्नानसन्ध्यादयः सर्वेऽप्यनुष्ठानविशेषा अस्मदीयगृह्यपरिशिष्टकारैः संगृहीता किं च प्रातर्हितचिंतनशौचाचमनादिशयनविध्यन्ता अनुष्ठानविशेषा आचारप्रकाशाद्याह्निककारैः संगृहीताः517 गर्भाधानादयः संस्काराः सप्त पाकयज्ञसंस्था वैश्वदेवपञ्चयज्ञादयश्च गृह्यसूत्र एव पठिताः कूश्माण्डगणहोमब्रह्मकूर्चप्रतिसरबन्धाङ्कुरार्पणोदकशान्त्यादयस्तु क्रमेण पापक्षयाभ्युदयज्वरादिशान्त्यर्थास्तैत्तिरीयशाखीया बौधायनसूत्रोक्ता अस्माकं बह्वृचादीनां नित्यनैमित्तिकवन्नात्यन्तिकमावश्यकाः518 । कुतः । `नित्यं नैमित्तिकं काम्यं प्रायश्चित्तं चतुर्विध'मिति [REF???] वार्तिककारोक्त-चतुर्विधकर्ममध्ये निरुक्तानां कर्मणां519 काम्यप्रायश्चित्तपरत्वात् । किं च
`स्वशाखोपनिषद्गीता विष्णोर्नामसहस्रकम् ।
श्रीरुद्रं पौरुषं सूक्तं नित्यमावर्तयेद्गृही' ॥ इति
स्मृतेःश्रीरुद्राध्यायजपार्थमेव तैत्तिरीयापेक्षा बह्वृचादीनां नान्यार्थम्। एता-वता तैत्तिरीयाणां सर्वानपेक्षत्वं तद्भिन्नानां तदपेक्षत्वं च कथमिति केचन ऋक्शाखिनः सामशाखिनोऽथर्वशाखिनश्च विप्रतिपन्नाः520 । तथैवान्ये वाज-सनेयिनो मैत्रायणीयाश्च521 ।
[¤ 59]
ते सर्वे वादिनो विद्वद्भिर्वेदार्थविचारपरैः522 प्रष्टव्याः - किं भवदीयसूत्र-परिशिष्टनिबन्धकारैः प्रोक्ता ये नित्यनैमित्तिकाद्यनुष्ठानविशेषास्ते ऋग्यजु-रादिमन्त्रान्यतमेनानुष्ठेया वा तूष्णीं वा । किमर्थमयं संशयोऽस्माभिर्मन्त्रैरेव सर्वमनुष्ठीयत523 इति चेत् । ते च मन्त्राः कुत्रत्या इति । अस्मदीय-सूत्रादिषु पठिता इति चेत्कस्यां शाखायां प्रायशो विद्यमाना मन्त्राः सूत्र-कारादिभिः संगृहीता इति । किमर्थमस्माकं शाखाविचारः, सूत्रपरिशिष्टादौ पठिताः सूत्रपरिशिष्टमन्त्रा इत्यस्माभिर्व्यवह्रियन्त इति वदन्तो देवानांप्रियाः पुनः प्रष्टव्याः - किं भवदीयसूत्रकारादिभिर्व्यास-वाल्मीकिकृतभारतरामायणादिवन्नित्यनैमित्तिकसंस्कारमन्त्राः कृता वा स्वीयपरकीयशाखीया मन्त्राः संगृहीता वा । आद्ये524 मन्त्राणां पौरुषेयत्व-दोषप्रसङ्गभिया525 द्वितीयपक्ष एव श्रेयानिति चेत्तर्हि तैत्तिरीयशाखायामेव सन्ध्यावन्दनादिमन्त्रा526 उपलभ्यन्ते त एवाश्वलायनादिसूत्रकारैः पठिता इति तस्याः शाखाया एव सर्वापेक्षत्वं सिद्धम् ।
[¤ 60]
कुतः सर्वापेक्षत्वमिति वदन्तं प्रत्याह । कर्मत्रयप्रतिपादककाण्डानां तैत्तिरीयशाखायां विद्यमानत्वात् । किं नाम कर्मत्रयमिति चेत् । श्रौत-स्मार्तसदाचारभेदेन त्रिविधं कर्मेति ब्रूमः । कुत्रैतत्प्रतिपादितमित्युच्यते527 । पाराशरमाधवे528 होमप्रकरणे व्यासः -
`श्रौतं कर्म न चेच्छक्तः कर्तुं स्मार्तं समाचरेत् ।
तत्राप्यशक्तः करणे529 सदाचारं लभेद्बुधः' ॥ इति ।
[REF???]
अस्यार्थः । श्रौतं नाम त्रेताग्निसाध्यम् अग्निहोत्रादिकम् । स्मार्तं गृह्याग्निसाध्यम् औपासनस्थालीपाकादिकम् । उक्तोभयभिन्नं शौचाचमन-सन्ध्यादिकं530 सदाचारमिति विवेकः । ननु श्रुतौ प्रोक्तं श्रौतं स्मृतावुक्तं531 स्मार्तं सद्भिराचरितं सदाचारमिति केवलं यौगिकत्वं कर्मणां कुतो न स्वीकृतमिति चेन्न । अनवस्थापत्तेः532 । तथा हि । पूर्वोक्तत्रिविधकर्माणि बहुषु श्रुतिषु स्मृतिषु च प्रतिपादितानि । सद्भिरप्याचरितानि । तथा सति सर्वेषां कर्मणां533 श्रौतस्मार्तसदाचारत्वादिदं श्रौतमिदं स्मार्तमित्यादि-व्यवस्था न सिध्यति । तस्माद् योगाद्रूढिर्बलीयसीति न्यायात् स्मृतिष्वपि व्यवस्था534दर्शनाद्रूढ्या पूर्वोक्तपक्ष एव श्रेयान् । अथवा पङ्कजादिवद्योगे रूढिर्वा भवतु । गृह्याग्निसाध्यस्य स्मार्तत्वं याज्ञवल्क्य आह ।
`कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ।
दायकालादृते वापि श्रौते वैतानिकाग्निषु535' ॥ [REF???]
वैतानिका536 गार्हपत्यादय इति माधवाचार्याः537[REF???]। अग्न्याधेय-प्रभृतीन्याह वैतानिकानि । `उक्तानि वैतानिकानी'त्याद्याश्वलायनाचार्य-वचनाच्च [REF???]। भरद्वाजस्तु538 श्रौतस्य स्मार्तान्मुख्यत्वमाह539 ।
`होमं वैतानिकं540 कृत्वा स्मार्तं कुर्याद्विचक्षणः ।
स्मृतीनां वेदमूलत्वात्स्मार्तं केचित्पुरा विदुः' ॥ [REF???]
शातातपोऽपि
`श्रौतं यत्स्यात्541 स्वयं कुर्यादन्योऽपि स्मार्तमाचरेत् ।
अशक्तौ542 श्रौतमप्यन्यः कुर्यादाचारमन्ततः' ॥ [REF???]
आचारं सदाचारं सन्ध्यावन्दनादिकमपि ज्वराद्यशक्तावन्यः पुत्रो वा शिष्यो वा कुर्यादित्यर्थः।गर्गस्तु अनग्निकस्य पातित्यमाह ।
`कृतदारो न वै तिष्ठेत्क्षणमप्यग्निना विना ।
तिष्ठेत चेद्विजो व्रात्यस्तथा543 च पतितो भवेत् ॥
यथा स्नानं यथा भार्या वेदस्याध्ययनं तथा544 ।
तथैवोपासनं दृष्टं न तिष्ठेत्तदयोगतः545' ॥ [REF???]
शक्तस्य श्रौतास्वीकारे दोषमाह स एव ।
`यो वैदिकमनादृत्य कर्म स्मार्त्तैतिहासिकम्546 ।
मोहात् समाचरेद्विप्रो न स पुण्येन युज्यते ॥
प्रधानं वैदिकं547 कर्म गुणभूतं तथेतरत् ।
गुणनिष्ठः548 प्रधानं तु हित्वा गच्छत्यधोगतिम्'॥ इति ।
[REF???]
अङ्गिरा आह ।
`यो दद्यात्काञ्चनं मेरुं पृथिवीं च ससागराम् ।
तत्सायंप्रातर्होमस्य549 तुल्यं भवति वा न वा' ॥ इति ।
[REF???]
Dostları ilə paylaş: |
|
|