|
|
səhifə | 10/16 | tarix | 02.11.2017 | ölçüsü | 3,53 Mb. | | #26878 |
| [¤ 84]
सामवेद एव साः प्राशस्त्यं नेतरेष्विति न । अपि तु सर्ववेदेषु स्मृतिषु च746 श्रूयत एव प्राशस्त्यं पूर्वमुदाहृतं च । तस्मादुपासना747प्रधानत्वात् सामवेदः प्रशस्यतमो यजुर्वेदस्तु यज्ञकाण्डत्वात्748 प्रशस्यतम इत्युक्तमेव । सामयजुषोरुपासनायज्ञकाण्डयोः749अप्रशस्यतमावृग्वेदाथर्ववेदाविति न वाच्यम्750 । सर्ववेदाध्ययनतत्पारायणब्रह्मयज्ञादौ प्राधान्यमृग्वेदस्येत्युक्तमेव पूर्वम् । अथर्ववेदस्यापि तदुक्तानुष्ठाने ब्रह्मत्वे च प्राधान्यं पूर्वमेवोक्तम् । एवं व्यवस्थया चतुर्णामपि प्रशस्यतमत्वात्प्राधान्यम्751 ।
[¤ 85]
इष्टापूर्तादिकर्मसु समाप्तेषु तदङ्गत्वेन ब्राह्मणैः पठनीया आशीरूपमन्त्रा यजमानशाखागतमन्त्रा एव पूर्वमारब्धव्याः । ततः परं यथाक्रममाशी-र्मन्त्राः सर्वैः पठनीयाः। न तत्र ब्रह्मयज्ञादिवद्752ऋग्वेदादिक्रमः। तथा च स्मृतिः ।
`सर्वतः कर्मणामन्ते मन्त्राशिषमनुत्तमाम् ।
दद्युर्विप्राः स्वशाखोक्तामादौ तत्कर्मशाखिनाम्'॥ इति।
[REF???]
सर्वे विप्राः स्वस्वशाखोक्तमन्त्राशिषं सर्वकर्मणामन्ते कर्मकर्त्रे753 यजमानाय दद्युः । तत्रादौ ये यजमानशाखिनस्त एव मन्त्राशिषं दद्युः । तदनन्तरमितरे दद्युरित्यर्थः । तत्र यजमानोऽपि ऋग्वेदाध्यायी चेन्न विवादः। स्मृतौ कर्मणामन्त इत्युक्तत्वात्कर्माङ्गतया पठनीयानां मन्त्राशिषमित्युक्तत्वाद् आशीरूपाणामेव मन्त्राणामयं निर्णयः । न तु स्वेच्छया कर्मभिन्ने काले पठितव्यानाम् । तत्र तु754 ऋग्जुःसामाथर्वादिक्रमः ।
[¤ 86]
एवं च सति शाखाभेदे कथमित्युच्यते755 । यत्र756 ऋग्वेदिन एव शाकला बाष्कलाः सांख्यायनाः सन्ति, तत्र कर्मकर्ता शाकलशाखाध्यायी चेत् तन्मन्त्रपठनानन्तरं बाष्कलसांख्यायनानां मन्त्रारम्भेऽधिकारः । एवं बाष्कलशाखिनां सांख्यायनानां गृहेऽपि ज्ञेयम् । एवं यजुःशाखिनां गृहेऽपि कर्मकर्तृशाखामन्त्रानन्तरं757 तद्वेदावान्तरशाखिनामधिकारः । तत ऋग्वेद-सामवेदाथर्वणामिति ज्ञेयम् । एवं सामाथर्वशाखिनोर्यजमानयोरपि पूर्वं स्वमन्त्रस्ववेदभेदमन्त्राशिषोऽनन्तरमृग्वेदयजुर्वेदाध्येत्रोः ।
[¤ 87]
ननु यजुर्वेदिन एव तैत्तिरीयकाः काण्वा माध्यन्दिना मैत्रायणीया इदानीमुपलभ्यमाना विलक्षणाध्ययनक्रमवन्तो दृश्यन्ते । नेतरे ऋक्सामाथर्वशाखिनः । तेषां मन्त्रब्राह्मणाध्ययनस्यैकरूपत्वात् । तथा सति शाकलबाष्कलसांख्यायनानां सहाध्ययनेन758 न वैलक्षण्यम् । एवं सामशाखिनो राणायनीयकौथुमयोस्तथाथर्वशाखिनोः शौनकिपैप्पलादयोश्च किमर्थं स्वमन्त्रस्ववेदभेदमन्त्राशिषोऽनन्तरमितरवेदमन्त्रारम्भ इत्युक्तमिति । नैष दोषः। यद्यपि शाकलबाष्कलशाखयोः कल्पसूत्रमप्येकमाश्वलायनीयं ब्राह्मणमारण्यकं चैकमेवैतरेयाख्यं संहितापाठोऽपि प्रायशः समान एव । शाकलास्त्व`ग्निमीळ' इत्यारभ्य दशमण्डलान्ते `समानीव आकूति'रित्यृचमन्तिमां पठन्ति बाष्कलास्तु `तच्छंयो'रित्येकामृचमधिकां पठन्ति, तथापि सांख्यायनशाखिनां तु ब्राह्मणमारण्यकं च कौषीतकीयं कल्पसूत्रमपि सांख्यायनीयम् । एवं सामवेदिनोरपि । राणायनीयानां द्राह्यायणीयं कल्पसूत्रं कौथुमानां लाट्यायनसूत्रम् । गृह्यसूत्रमपि तयोर्भिन्नमेव । राणायनीयास्तु खादिरगृह्योक्तं स्मार्तानुष्ठानं कुर्वन्ति । कौथुमास्तु गोभिलगृह्योक्तम् । एवं प्रकृति759ग्रन्थेऽपि गायत्र्याग्नेयैन्द्रपव-मानारणशुक्रियशक्वर्याख्यसप्तगानाख्ये यत्किञ्चिद्वैलक्षण्यं दृश्यत एव । राणायनीयास्तु सर्वत्र `हिं आ' इति पठन्ति । कौथुमास्तु `हुं आ' इति। छान्दोग्येऽपि `यत्किञ्च वाचो हिं इति स हिंकार' [CU 2.8.1] इति राणायनीयाः पठन्ति । कौथुमास्तु `वाचो हुं' इति । एवमेव पैप्पलादशौनक्याख्ययोरथर्वशाखयोरपि ज्ञेयं किञ्चिद्वैलक्षण्यम् । तस्मा-द्युक्तमेवोक्तं पूर्वमिति सिद्धम् ।
[¤ 88]
किं च बह्वल्पं वा वैलक्षण्यमन्तरेण शाखाभेद एव न सिद्ध्यति । स्वरपाठवाक्यन्यूनाधिक्यसूत्रब्राह्मणादिवैलक्षण्यमेव यतः760 शाखाभेदहेतुः । ननु तैत्तिरीयशाखायामेकस्यामपि बहवः कल्पसूत्रकाराः प्रवृत्ता आपस्तम्बादयः । तथा सति सूत्रभेदमात्रेण शाखाभेदो न युक्त इति केचित् । मैवम्761। यथा काण्वमाध्यन्दिनादीनां पञ्चदशानां श्रौतस्मार्ता-नुष्ठानसूत्रस्य कात्यायनीयस्यैकत्वेऽपि स्वराध्ययनादिकिञ्चिद्वैलक्षण्य-मात्राच्छाखाभेद एवमत्रापि ज्ञेयम्। ननु सूत्रैक्येऽप्यध्ययनभेदाच्छाखाभेदो दृष्टः, शाकलबाष्कलयोर्यथैकमाश्वलायनसूत्रं, वाजसनेयिनां पञ्चदश-शाखिनां कात्यायनसूत्रं,तथाध्ययनैक्येऽपि सूत्रभेदमात्रेण शाखाभेदो न दृष्टचर इति । न चैवं, तैत्तिरीयशाखायां दृष्टत्वात् । ननु तत्र शाखाभेद एव नास्ति । तैत्तिरीयशाखा त्वेकैव । आपस्तम्बसत्याषाढादिव्यवहारः सूत्रमूलको न तु शाखाप्रयुक्त इति । मैवम् । पदवाक्यप्रमाणज्ञैर्वैज-यन्त्याख्यहिरण्यकेशिसूत्रव्याख्याकृद्भिर्महादेवदीक्षिताख्यैर्वैजयन्त्युपोद्धातप्रक-रणे शाखाभेदविचारे `सूत्रभेदादेवापस्तम्बादयः सूत्रनामानः षट् शाखिनः प्रसिद्धा'762 इत्युक्तम् ।
[¤ 89]
ननु वैजयन्तीकारोक्तमस्तु नाम । तस्य पौरुषत्वात्763 । आर्षग्रन्थे कुत्रैतत्प्रतिपादितमित्युच्यते । शौनकाचार्यकृते चरणव्यूहशास्त्रे764 यजु-र्वेदस्य शाखाभेदविचारे औख्यकाण्डिक्यभेदेन765 तैत्तिरीयशाखाया द्वैविध्य-मुक्त्वा ततः काण्डिक्यानां पञ्च भेदा भवन्त्यापस्तम्बी बोधायनी सत्या-षाढी हिरण्यकेशी औधेयी चेति स्पष्टमुक्तम् ।
ननु शाखेति स्वकुलपारम्पर्यागतस्वाध्यायशब्दवाच्यस्य वेदस्य नाम । तस्य वैलक्षण्येन शाखाभेदो युक्तः । तस्यैक्ये कथं भेद इति । उच्यते । `षडङ्गो वेद' इति [REF???] धर्मशास्त्रोक्तेः766 `ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्चे'ति [REF???] च । पाणिनीयशिक्षायामपि767 `तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयत' [REF???] इत्युक्तम् । आथर्वणेऽप्याम्नायते768 । `तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिष'मित्यङ्गसाहित्यं वेदस्योक्तम् [REF???] । याज्ञवल्क्यस्मृतावपि ।
`पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश' ॥ इति ।
[REF???]
वेदस्याङ्गमिश्रितत्वं ध्वनितम् ॥ चतुर्णामुपवेदानां चतुर्षु वेदेष्वन्तर्भाव्य चतुर्दशत्वं विद्यानां ज्ञेयम् । अन्यथा तेषामविद्यात्वापत्तेः769 । अङ्गानि पूर्वोक्तानि, पुराणादीन्युपाङ्गानीति विवेकः । ब्राह्मपाद्माद्यष्टादशपुराणानि770 सनत्कुमारादीन्यष्टादशोपपुराणानि771 भारतरामायणशिवरहस्यादिसहितानि वेदस्यैकमुपाङ्गम् । गौतमप्रणीतं772 च न्यायसूत्रं द्वितीयं व्यासप्रणीतं जैमि-नीयं च मीमांसासूत्रं तृतीयम् । मन्वादिप्रणीतं धर्मशास्त्रं चतुर्थम् । एवं चत्वार्युपाङ्गानि । शक्तस्य तेषामप्यध्ययनं कर्तव्यत्वेनोक्तं स्मृतिषु । `अधीत्य चतुरो वेदान् साङ्गोपाङ्गपदक्रमान्' इत्यादि [REF???] । अशक्तस्य यथाशक्त्यध्ययनं कर्तव्यमित्युक्तम् ।
`वेदानधीत्य वेदौ वा वेदं वाऽपि स्वशक्तितः ।
सुवर्णपूर्णधरणीदानस्य फलमश्नुते' ॥ इति ।
[REF???]
अत्यन्ताशक्तस्यापस्तम्बादिधर्मसूत्रे `धर्मेण वेदानामेकाँ!238100 शाखामधीत्य श्रोत्रियो भवती'ति [REF???] श्रोत्रियत्वसंपादनार्थमङ्गपदक्रमरहितस्व-शाखाध्ययनमात्रमुक्तम् । श्रोत्रियाभावे श्राद्धादिकर्मलोपप्रसङ्गात् ।
`अश्रोत्रियब्राह्मणभोजनस्य773
षोडश श्राद्धानि पितरो न भुञ्जते ।
ततो निराशाः पितरो भवन्ति ॥
सेन्द्रा अस्मै देवाः प्रहरन्ति वज्रम्' ॥ इति ।
[REF???]
`हतमश्रोत्रियं श्राद्ध'मिति [REF???] महाभारते च अश्रोत्रियस्य निन्दितत्वात् ॥ तस्मात्षडङ्गवेदाध्ययनं ब्रह्मलोकप्राप्तिसाधनं तद्रहिताध्ययनं श्रोत्रियत्वसंपादनमिति सर्वस्मृतिपुराणादिषूक्तमित्यलं प्रसङ्गागतचिन्तया ॥
[¤ 90]
प्रकृतमनुसरामः । यतः षडङ्गसहित एव मुख्यो वेदशब्द774स्ततोऽङ्ग-वैलक्षण्येनापि वेदवैलक्षण्यस्य सिद्धत्वाद्युक्त एव सूत्रभेदादपि शाखाभेदः शौनकाचार्यैः प्रतिपादित इति बोध्यम् । यत्र त्वेकवेदावान्तरशाखिनां समवाये आशीर्वादद्योतका ये मन्त्राः स्वरपाठादिवैलक्षण्यरहितास्तैत्तिरीय-शाखागता दाशतय्याख्यऋग्वेदसंहितागता वा ते शाकलादिभिरापस्तम्बा-दिभिः च शक्यत्वात्सहैवाध्येतव्याः ॥ ये मन्त्राः पाठादिवैलक्षण्याः काण्वमाध्यन्दिनतैत्तिरीयमैत्रायणीयादिशाखागता ऐतरेयकौषीतकिब्राह्मण-गता राणायनीयकौथुमयोः775यत्र वैलक्षण्याभावस्तत्र नास्त्येव क्रमविवक्षा । यत्रास्ति तत्रायं क्रमः । पैप्पलादशौनकशाखयोरथर्वणवेदावान्तर-शाखयोरप्येवं शक्याशक्यत्वेन व्यवस्था ज्ञेया ॥776
[¤ 91]
पूर्वं पृथिवीमध्यरेखा नर्मदा तस्या दक्षिणे पञ्च द्राविडा द्राविडान्ध्र-कर्णाटकमहाराष्ट्रगुर्जरास्तस्या उत्तरे पञ्च गौडा मैथिलसारस्वतोत्कला-दयः777 । द्राविडानां शाकलतैत्तिरीयराणायनीयपैप्पलादाख्याः क्रमेणर्ग्वेदादिशाखाः । गौडानां तु सांख्यायनवाजसनेयिकौथुमशौनकाख्या ऋग्वेदादयः । तत्र पञ्च द्राविडाः शाकलादिशाखिनः परस्परं यज्ञकन्याविभागिनः, पञ्च गौडा अपि तथैवेत्युक्तम् ॥ पूर्वं तावद् द्राविडा गौडाश्च स्वस्वदेशे स्वस्वजातिभिरेव यौनश्रौतमखसम्बन्धं778 कुर्वन्तः सुराजभिः संरक्ष्यमाणाः स्वधर्मनिष्ठाः सन्तः स्थिताः । इदानीं धर्माल्पत्वेन सुराजसु नष्टेषु म्लेच्छाक्रान्तभूमिभागे सति येषां येषां यत्र यत्रोपजीविका लब्धा ते ते तत्र तत्र गत्वा कथंचिद् ब्राह्मणत्वमात्रस्य रक्षणं कुर्वन्तः स्थिता गौडदेशे द्राविडा द्राविडदेशे गौडाश्च ।779 श्रौतसम्बन्धस्तु780 प्रायशो व्यत्यय एव जातः । कुतः । यतः परस्परं गौडा द्राविडाश्च स्वजातिष्वन्यजातिष्वपि वेदशास्त्राध्ययनं कुर्वन्ति । तथापि न दोषबाहुल्यम् । आपदि ब्राह्मणानां क्षत्रियेभ्योऽपि वेदाध्ययनं धर्मसूत्रेषूक्तम् । पूर्वोक्तवाक्येऽपि यज्ञकन्याविभागिन इत्युक्तम् । तद्व्यत्यये च दोषबाहुल्यं स्मर्यते781 ।
`विवाहं पार्वणश्राद्धं सोमपानादिकं तथा ।
स्वजातिभिश्च कर्तव्यमन्यथा पतितो भवेत्'॥ इति ॥
[REF???]
अत्र स्वजातिशब्देन येषां यैः परस्परं यौनसम्बन्धो वर्तते शास्त्रतस्तद्योग्यता वा त एव परस्परं स्वजातयः । अन्यथा ब्राह्मणजातिमात्रस्य स्वजाति-विवक्षायां गौडद्राविडयोरपि परस्परं यौनसम्बन्धापत्तेः । स तु कुत्रापि न दृष्टचर आचारविरोधश्च । द्राविडान्ध्रकर्णाटकमहाराष्ट्राणां देशभाषाभेदात् प्रायशः परस्परं यौनसम्बन्धाभावेऽपि तद्योग्यता वर्तत इति ज्ञेयम् । अत एव ते परस्परमार्त्विज्यं कुर्वन्ति ।782 शाकलादिशाखिनः783 विवाहसम्बन्ध-स्त्वद्यापि व्यवस्थित एव दृश्यते । मख784सम्बन्धस्यापि सर्वथा न व्यत्ययः। क्वचिद्व्यत्ययोऽपि दृश्यते।
[¤ 92]
ननु गौडा गौडैः सह द्राविडास्तु द्राविडैः सह श्रौतानुष्ठानं कुर्वन्ति । कुतो व्यत्यय इति। मैवम्785 । देशविशेषे महाराष्ट्रादयः शाकलादि-शाखिनः सोमसंस्थास्वशक्ता786 वाऽभावाद्वाऽऽलस्यादिना वा स्वसम्बन्धं राणायनीयं सामप्रयोगं परित्यज्य कौथुमशाखोक्तमौद्गात्रादिसामप्रयोगमनु-तिष्ठन्ति787 । तथा वाजसनेयिनोऽपि स्वसम्बन्धं सांख्यायनीयं हौत्रं त्यक्त्वा द्राविडसम्बन्धमाश्वलायनीयं हौत्रमनुतिष्ठन्ति । एवमन्यदपि यथायथमूह-नीयम् ।
[¤ 93]
ननु महाराष्ट्रदेशीया वाजसनेयिनो वयं महाराष्ट्रा इति वदन्ति तेषां गौडत्वं कथमिति । न चैवम् । नर्मदादक्षिणे भाग इति पूर्वोक्तवाक्या-द्वाजसनेयिनां तु द्राविडैर्यौनसम्बन्धाभावाच्च तेषां गौडत्वमेवोचितम् । एवं कर्णाटकान्ध्रद्राविडादिदेशस्था788 शाकलतैत्तिरीयादयोऽपि द्राविडा एव तथैव महाराष्ट्रदेशस्थाः सर्वतः गौडा एवेति ज्ञेयम्[What does this mean?]। अस्त्वेतत् प्रासङ्गिकं, प्रकृतमुच्यते ।
[¤ 94]
वाजसनेयिनः789 कर्मणामन्त इति पूर्वोक्तवाक्यात्कर्मकर्तृशाखीयमन्त्र-पाठानन्तरं शाकलानामादावधिकारः । नर्मदादक्षिणभागे तेषां प्राधान्यात् । ततः क्रमेण तैत्तिरीयराणायनीयपैप्पलादानाम् । नर्मदोत्तरभागे तु यजमानशाखीयमन्त्रानन्तरं क्रमेण सांख्यायनवाजसनेयिकौथुमशौनकी-यानाम् । अयं साधारणः क्रम उक्तः।विशेषस्तु नर्मदादक्षिणभागे वोत्तरभागे वा। यजमानः शाकलश्चेत्तन्मन्त्रपठनानन्तरं ततः790 सांख्यायनानां ब्राह्मणादिमन्त्रपाठेऽधिकारः । ततस्तैत्तिरीयाणां तेषां शाकलसम्बन्धित्वात् । ततो मैत्रायणीयानां तेषामपि त्रैगुण्यादि791-विशिष्टतया तैत्तिरीयसादृश्याद् वैशम्पायनशिष्यत्वापरित्यागाच्च । ततः काण्वानां, तेषां पञ्चदशवाजसनेयिशाखासु प्राथम्यात् । तेषामेव प्रथमशाखित्वप्रसिद्धेः । ततो माध्यन्दिनानाम् । ततो राणायनीयानाम् । तेषामेव शाकलसम्बन्धित्वात् । ततः कौथुमानाम् । ततः पैप्पलादानाम् । ततः शौनकानामिति । सांख्यायनानां गृहे तस्याः शाखाया अनन्तरं शाकलादिक्रमः । तैत्तिरीयाणां गृहे तु तन्मन्त्रस्य पूर्वभावित्वं, ततः काण्वमाध्यन्दिनयोः । ततो मैत्रायणीयानाम्792 । ततः शाकलादीनाम् । काण्वानां गृहे तन्मन्त्रपाठानन्तरं माध्यन्दिनानामधिकारस्ततस्तैत्तिरीय-मैत्रायणीययोस्ततः शाकलादीनाम् । माध्यन्दिनानां गृहे तेषामादौ, ततः काण्वतैत्तिरीयमैत्रायणीयानां, ततः शाकलानाम् । यजमानो मैत्रायणीय-श्चेत्तन्मन्त्रानन्तरं तैत्तिरीयकाण्वमाध्यन्दिनानां ततः शाकलादिक्रमः । राणायनीयगृहे तन्मन्त्रपाठात्परं कौथुमानां ततो यथोक्तम् । पैप्पलादानां गृहे स्वमन्त्रात्परं शौनकानाम् । ततो यथोक्तम् । शाकलबाष्कलयोस्तु सूत्रब्राह्मणयोराश्वलायनैतरेयाख्ययोरप्यैक्यात्सहाध्ययनसंभवाच्च तयोः क्रम-विशेषो नोक्तः । सांख्यायनानामपि सूत्रब्राह्मणभिन्नं सर्वमाश्वलायनेन समं, सूत्रब्राह्मणार्थमेव तेषां पूर्वं क्रम उक्तः । पूर्वोक्तगृहशब्दस्तु कर्मकर्तृ-गृहवाचीति बोध्यम् । अन्यथानर्थक्यप्रसङ्गात्793 ।
[¤ 95]
पूर्वं तावत्तत्तद्वेदावान्तरशाखाभेदा बहवः स्थिताः । इदानीं तु ऋग्वेदस्य भेदद्वयं प्रायश उपलभ्यते । गुर्जरव्यातिरिक्ताः सर्वे द्राविडाः शाकला एव त एवाश्वलायना इत्यपि वदन्ति । यतः सूत्रमेवाश्वलायनीयं शाखा तु शाकलैवेत्यपि वक्तुं794 न शक्यते । यतः795 शौनकीये चरणव्यूहशास्त्रे `ऋग्वेदस्याष्टौ भेदा' इत्यारभ्य संहितापदक्रमव्यतिरेका अष्टौ विकृतय उपन्यस्तास्तत`स्तेषां शाखाः पञ्च भवन्त्याश्वलायनी सांख्यायनी शाकला बाष्कला माण्डूकेया चे'ति796 प्रतिपादितम् । तस्माच्छाकलभिन्नाश्वलाय-न्यपि शाखास्तीत्यविरोधः797 । एतदाश्वलायनसूत्रं शाकलबाष्कलाश्व-लायनाख्यशाखात्रयसाधारणम् । एवं तर्ह्याश्वलायनीयशाखायाः किं वैलक्षण्यमिति चेत् । शिष्टा एवं798 वदन्ति यथा माण्डूकेयशाखा लुप्ता तथाऽऽश्वलायन्यपीति । गुर्जरास्तु सांख्यायनीशाखाध्ययनं कुर्वन्ति । बाष्कलास्तु क्वचिद्देशविशेष एवोपलभ्यन्ते ।
[¤ 96]
यजुर्वेदस्य चतस्रः शाखा उपलभ्यन्ते । तत्र सर्वे गुर्जरव्यतिरिक्ता द्राविडास्तैत्तिरीयशाखिनः सर्वे गौडा येच केचन गुर्जराश्च वाजसनेयिनः । मैत्रायणीयशाखाऽपि लुप्तप्राया । महाराष्ट्रैकदेशे केचिद् ब्राह्मणा वयं महा-राष्ट्रा इति वदन्त उपलभ्यन्ते । तेषां मैत्रायणीया शाखा । तस्याः शाखाया अपि सूत्रद्वयमेकं मानवसूत्रमन्यद्वाराहाख्यम् । वाजसनेयिनां पञ्चदशानां मध्ये शाखाद्वयमिदानीमुर्वरितम् । तत्र माध्यन्दिना एव बहवः । काण्वास्तु क्वचिदेवोपलभ्यन्ते । तैत्तिरीयाणां तु सूत्रभेदाच्छाखाभेदः पूर्वमेवोक्तः । तत्रापस्तम्बा एव द्राविडान्ध्रकर्णाटकमहाराष्ट्रजातिषूपलभ्यन्ते । हिरण्यकेशिनस्तु क्वचिदेव द्राविडेषूपलभ्यन्ते । महाराष्ट्रदेशेऽपि ये चित्पावनाख्यब्राह्मणास्तेऽपि हिरण्यकेशिनः । तत्र बहवः शाकलाः । बौधायनास्तु799 द्राविडजातिष्वेव क्वचिद् दृश्यन्ते क्वचित् कर्णाटकेषु । अन्ये भारद्वाजवैखानसवाधूलाख्यास्तैत्तिरीयावान्तरभेदा लुप्ता एव । तेषां सूत्रं तु क्वचित् क्वचिदुपलभ्यते । राणायनीयाः सामशाखिनो द्राविडदेशे बहव उपलभ्यन्ते। कौथुमास्तु गुर्जरदेशे । पैप्पलादा अथर्वशाखिनः केचिन्महाराष्ट्रदेश एवोपलभ्यन्ते । गुर्जरदेशे शौनका इति विवेकः । सामाथर्ववेदयोरिदानीं भेदद्वयमेवोर्वरितम् ।
[¤ 97]
ननु गुर्जरास्तु द्राविडान्तःपातिनः सन्तस्ते कथं द्राविडसंप्रदायं शाकल-तैत्तिरीयराणायनीयपैप्पलादाख्यमृग्वेदादिशाखाभेदं परित्यज्य गौडपक्ष-पातीयमुक्तप्रकारं सांख्यायनादिशाखाचतुष्टयमधीयत800 इति । सत्यमे-वोक्तम् । यथा गुर्जराणां द्राविडान्तःपातिनामपि द्राविडैः सह भोजनादि-संव्यवहारादिकं नास्ति, तथैवाध्ययनादिकमपीति ज्ञेयम् । कुतो गुर्जराणां संव्यवहाराभाव इति चेदुच्यते । गौडदेशवद्गुर्जरदेशेऽप्यनाचारबाहुल्यात्तेषा-माचार्यशापदग्धत्वात्केरलदेशीयब्राह्मणादिवत्संव्यवहाराभाव इति संक्षेपः ।
[¤ 98]
ननु गौडानां सांख्यायनादिचतस्र801 ऋग्वेदादिशाखा उक्ताः । तच्छाखिनां च परस्परं यज्ञकन्याविभागादिव्यवहारोऽप्युक्तः802 । तथापि सर्वे गौडा वयं वाजसनेयिन इत्येव वदन्ति न तु ऋक्सामाथर्ववेदाध्ययनं कुर्वन्तीति चेदिदमप्यल्पमेवोक्तम् । अस्तु नाम तज्जातिषु ऋगादिवेद-त्रयाध्ययनस्य लोपः । वयं वाजसनेयिन इत्येवं803 वदन्ति ते तच्छाखैक-देशाध्ययनमपि न कुर्वन्ति सर्वे । कृत्स्नवेदाध्ययनस्य किमु वक्तव्यम् । तिष्ठतु गौडदेशाध्ययनप्रसङ्गः । महाराष्ट्रदेशीया अपि प्रायशो वाजसनेयिनः शाकलतैत्तिरीयादिवत्कृत्स्नं शाखाध्ययनं न कुर्वन्ति किं तु चत्वारिंशद-ध्यायात्मकम् `इखे त्वे'त्यध्यायमारभ्य `ईशा वास्य'मित्यध्यायपर्यन्तं चतुःसहस्रोपरि किंचिदधिकसंख्याकं संहिताख्यमेवाधीत्य तस्यैव पदक्रमा-दिकं पठन्ति । तत्र केचित्प्रबुद्धाश्चेज्जटाख्यं घनाख्यं च विकृतिग्रन्थं पठन्ति, न तु चतुर्दशकाण्डात्मकं चतुर्दशसहस्रग्रन्थसंख्योपेतं804शतशब्दोपलक्षितापरिमितब्राह्मणमण्डितं शतपथब्राह्मणम् । इदानीं शत-पथब्राह्मणमपि मैत्रायणीयशाखावत्प्रायो लुप्तमिव दृश्यते । तन्मध्ये केचन वाजसनेयिनः काण्डद्वयस्य काण्डचतुष्टयस्य वाऽध्ययनं कुर्वन्ति शेषग्रन्थस्य पुस्तके एव संरक्षणं कुर्वन्ति।भवतु805 प्रासङ्गिकी कथा। प्रकृतमन्यदुच्यते ।
[¤ 99]
आशीर्वचनमन्त्रारम्भे यो न्याय उक्तः स एवेष्टापूर्ताद्यनुष्ठाने स्वीकार्यः । तत्र कुण्डमण्डपभिन्नस्मार्तानुष्ठानत्वे806 त्वविवादः । तस्यैकशाखीय807-सूत्रसाध्यत्वाद्यच्छाखीयो यजमानस्तच्छाखीयैरेवर्त्विग्भिस्तदनुष्ठानस्य प्रायशः कर्तुमुचितत्वाच्च । देशनगरग्रामारिष्टनिरसनार्थं तत्तद्देशनगरग्राम-स्थैर्ब्राह्मणैः समुदायद्रव्यं संपाद्य क्रियमाणस्य होमजपाभिषेकादि-रूपस्यानुष्ठानस्य विचारः पूर्वमेव कृतः । स एव कुण्डमण्डपपूर्वकश्चे-च्चतुर्वेदसाध्यः808 । तत्राचार्यर्त्विग्विचारः पूर्वोक्त एव ग्राह्यः । समुदायानुष्ठान एकयजमानकर्तृके च तत्र कलहशङ्क -द-पा!247232स्तम्बानां प्राथम्यं ततो बौधायन-भाआ!247337वात् । कुण्डमण्डपे तु809 चतुर्षु द्वारेषु प्रतिद्वारं द्वौ द्वौ द्वारपालकौ पूर्वादिद्वारक्रमेण ऋगादिशाखिनौ तत्तद्वेदोक्तमन्त्रजपकर्तृत्वेन विहितौ । तत्र ऋगादि-शाखाया अवान्तरभेदस्य सत्त्वात्तत्र कलहायन्तो दृश्यन्ते देशनगरग्रामविशेषे ब्राह्मणाः । तत्र नर्मदादक्षिणभागे विद्यमानानां द्राविडानां शाकलाद्यृक्शाखा810द्यध्ययनप्राधान्याद्यज्ञकन्याविभागानुरोधेन शाकलतैत्ति-रीयराणायनीयपैप्पलादाख्याः पूर्वादिद्वारेषु क्रमेण द्वारपालका विज्ञेयाः । कुण्डमण्डपकर्ता यदा शाकलशाखी, तस्य शाकलतैत्तिरीयराणायनीय-पैप्पलादाः क्रमेण पूर्वादिदिक्षु द्वारपालकाः । तैत्तिरीयादीनां यजमानानामप्येवम् । गुर्जरभिन्नद्राविडानामयमुक्तः पक्षः । स गुर्जरगौडानां गृहे सांख्यायनवाजसनेयिकौथुमशौनकीया द्वारपालका इति विवेकः ।
[¤ 100]
ननु दक्षिणद्वारे मदनमहार्णवादिमहाप्रबन्धोक्तप्रकारेणानुष्ठाने कर्तव्ये तत्रा`नुक्ते मातामहीयं सूत्रं ग्राह्य'मित्युक्तत्वाद्यद्यपि811 कूष्माण्डादयः812 सूक्तादिमन्त्रविशेषा याजुषैर्जप्तव्यास्ते वाजसनेयिशाखायां साकल्येन813 नोप-लभ्यन्ते । कथं वाजसनेयिनां द्वारपालसिद्धिः । तैत्तिरीयशाखायां तु कृत्स्नमन्त्रा814 उपलभ्यन्ते । हेमाद्रिणा तथा व्याख्यानात्तैरेव सर्वत्र कुण्ड-मण्डपीयदक्षिणद्वारसम्बन्धिकं कर्म कर्तव्यमिति । न चैवं युक्तम् । `यथा कन्या तथा हवि'रिति वाक्यबलात्815 स्वसूत्रवाजसनेयके816 साकल्येन मन्त्रानुपलब्धिस्तथाऽपि गुणोपसंहारन्यायेन तैत्तिरीयगतमन्त्रानपि संगृह्य वाजसनेयिभिरेव सांख्यायनादीनां गृहे दक्षिणद्वारपालकत्वं कर्तव्यम् ।
Dostları ilə paylaş: |
|
|