Salutation to holy Ga eśa



Yüklə 3,53 Mb.
səhifə11/16
tarix02.11.2017
ölçüsü3,53 Mb.
#26878
1   ...   8   9   10   11   12   13   14   15   16

[¤ 101]

स्वशाखीयमेव सर्वं कर्तुं केनापि न शक्यते । `सर्वशाखाप्रत्ययमेकं817 कर्मे'ति न्यायात् । `यज्ञोपवीतं परमं पवित्र'मित्याथर्वणमन्त्रस्य सर्वै-र्ब्राह्मणैर्यज्ञोपवीतधारणार्थे विनियुक्तत्वाच्च । यत्र मैत्रायणीशाखी818 यजमानस्तत्र त एव दक्षिणद्वारपालकाः । अन्ये शाकलादयः । यद्यपि तेषां शाकलादिभिर्यौनसम्बन्ध इदानीं न दृश्यते तथापि देशैक्यात् । मैत्रायणीयास्तु महाराष्ट्रदेश एव उपलभ्यन्ते न गौडदेशे । तस्मात्तत्र सांख्यायनादीनामनधिकारः। काण्वानां गृहे त एव दक्षिणद्वारपालाः819। माध्यन्दिनानां माध्यन्दिनाः। तैत्तिरीयाणां बहुत्वादापस्तम्बानामापस्तम्बा एवं यथायथमूह्यम् ।820

[¤ 102]

ननु करहाटजातिष्वेकैव शाकलशाखा दृश्यते । तेषां मातामहसूत्र-मप्याश्वलायनमेव । तेषामपि देशैक्यात्तैत्तिरीयकं ग्राह्यम् । ते तु बहुविधा आपस्तम्बादयस्तत्र कथं कर्तव्यमिति चेत् उच्यते । तेषां गृहे बौधायनादीनामप्रवृत्तिः821 । स्वदेशे तदभावात् । बौधायनास्तु द्राविडा-न्ध्रकर्णाटकेषु क्वचिदुपलभ्यन्ते न महाराष्ट्रदेशे । करहाटास्तु महाराष्ट्र-समीपस्थाः822। तत्र चित्तपावनानां शाखाद्वयं शाकलहिरण्यकेश्याख्यं दृश्यते। देशस्थसंज्ञकानां महाराष्ट्राणां शाखाचतुष्टयं शाकलापस्तम्बराणायनीय-पैप्पलादाख्यं पूर्वं स्थितम् । इदानीं शाखाद्वयं प्राधान्येनोपलभ्यते शाकलापस्तम्बाख्यम् । पैप्पलादा अपि क्वचिद् दृश्यन्ते । राणायनीयं तु लुप्तमेव । केचिद्देशस्था वयं सामगा इति केवलं वदन्त्यध्ययनं तु शाकलस्य वेदस्य कुर्वन्ति । करहाटास्तु चित्तपावनप्राधान्ये कोङ्कणदेशेऽपि दृश्यन्ते, देशस्थबाहुल्ये महाराष्ट्रे च823 । तस्मात्तेषां दक्षिणद्वार824-मापस्तम्बीयं हिरण्यकेशीयं वेति संशय आपस्तम्बीयमेव तेषां कर्तव्यमिति युक्तम् । करहाटानां देशस्थानां च यौनसम्बन्धोऽपि शास्त्रीयो लौकिको वा क्वचिद् दृश्यते । करहाटा एव मातुलकन्यापरिणयनमपि देशस्थवत् कुर्वन्ति । आन्ध्रा अपि च । चित्तपावनास्तु द्राविडवन्न मातुलकन्यां स्वीकुर्वन्ति । तस्माद्देशस्थाचारसामान्याद्देशैक्याच्च825 करहाटानामाप-स्तम्बीयमेव कुण्डमण्डपे दक्षिणद्वार्यं कर्मेति सिद्धम् । अत्र केचिचच्चत्तपावनैरपि करहाटानां क्वचिद् योनिसम्बन्धो दृश्यते देशसाम्याविशेषाच्च हिरण्यकेशीयमेव तेषामुचितमिति वदन्ति । तन्न । पूर्वोक्तप्रबलाचारविरोधात् । सम्बन्धस्याप्याधुनिकत्वात्826 पूर्वोक्तमेव समीचीनमिति दिक् ।

[¤ 103]

एवमेव यस्यां जातौ शाखैक्यं सूत्रैक्यं च तत्रायमेव न्यायः स्वीकार्यः । 827यत्राविशेषेण सांख्यायनादीनां गृहे काण्वमाध्यन्दिनयोः प्राप्तिस्तत्र काण्वानां प्रथममधिकारस्तेषां पञ्चदशशाखासु प्राथम्यात् । तेषामभावे माध्यन्दिनानाम् । द्वौ द्वारपालकौ दक्षिणद्वारे तत्रैकः काण्वोऽपरो माध्यन्दिन इति नाशङ्कनीयम् । तयोः स्वरपाठादिवैलक्षण्येन सहाध्येतुमशक्यत्वात् । शाकलबाष्कलयोस्तु तत्सम्भवाद् द्राविडानां गृहे तत्सिद्धिः । यत्राविशेषेण सर्वेषां तैत्तिरीयाणां प्राप्तिस्तत्रापस्तम्बानां प्राथम्यं ततो बौधायनसत्याषाढयोः । यतः शौनकाचार्यैरेव चरणव्यूहे आपस्तम्बी-बौधायनी828सत्याषाढीत्यादिक्रमस्योक्तत्वाद्राणायनीयकौथुमयोः सामशाखि-नोः पैप्पलादशौनकयोरथर्वशाखिनोश्च युगपन्न प्रसक्तिः । तयोर्द्राविडगौड-सम्बन्धित्वेन 829 व्यवस्थितत्वात् ।

[¤ 104]

केचिद्देवरक्षकसंज्ञका ब्राह्मणा कोङ्कणदेशे वसन्ति । तेषां शाखाद्वयं शाकलहिरण्यकेश्याख्यं 830दृश्यते । तेषां कुण्डमण्डपानुष्ठाने पश्चिमोत्तर-द्वारयो राणायनीयपैप्पलादयोरेवाधिकारो देशैक्यान्न कौथुमादीनां भिन्नदेशीयत्वात् । एवं यत्र यत्र द्राविडदेशे गौडदेशे वा तदवान्तरजातिविशेषाः सन्ति तेषां देशभाषाचारादिसम्बन्धानुरोधेन कुण्डमण्डपानुष्ठाने व्यवस्था ज्ञेया । यच्छाखीयमनुष्ठानं तच्छाखीय एवर्त्विगाचार्याः । भिन्नशाखीयेऽपि यजमाने यथा ऋक्सामाथर्वशाखिनां गृहे शतरुद्रीयजपहोमाभिषेकोदकशान्त्याद्यनुष्ठाने831 तैत्तिरीया, एवं832 पवमानमन्युसूक्ताद्यनुष्ठाने शाकलाः, सामविधानोक्तानुष्ठाने सामशाखिनोऽ-थर्ववेदोक्ते तच्छाखिन एवर्त्विगाचार्या इति यथायथं ज्ञेयम् ।

[¤ 105]

ननु पूर्वं गुणोपसंहारन्यायेन स्ववेदेऽविद्यमानं मन्त्रादिकं वेदान्तरात्सं-गृह्यानुष्ठेयमित्युक्तम् । इदानीं यच्छाखीयं तच्छाखीयैरेव कर्तव्यमिति वदता पूर्वोत्तरविरोध इति । नैष दोषः । न्यूनांशपूर्णार्थमन्यवेदान्मन्त्रादि स्वीकार्यमित्युक्तं पूर्वम् । इदानीं तु कृत्स्नमेव कर्म परशाखीयं तत्र कथमित्येतद्विचारः कृतः । एवं तर्हि पूर्वाङ्गमुत्तराङ्गसंज्ञकं तन्त्रममिउ!252495खाख्यं कतरेण सूत्रेणेति चेत् तत्र यजमानसूत्रेणेति833 वदामः । कुतः । तस्य यजमानस्य प्रधानत्वात् फलभोक्तृत्वाच्च । ननु ऋक्सामाथर्वशाखिनां यथा श्रौतानुष्ठानं याजुर्वैदिकमध्वर्युशाखीयं तथाऽग्निमुखतन्त्रमाचार्यशाखीय-मेवेति चेन्न । दृष्टान्तवैषम्यात् । श्रौतं दर्शपूर्णमासादिकं स्वसूत्रे नोक्तमित्यन्यशाखीयं तैर्गृह्यते । `अनुक्तमन्यतो ग्राह्य'मिति वचनात् । अग्निमुखतन्त्रस्य सर्वैः सूत्रकारैः पठितत्वात् स्वकीयमेव ग्राह्यमिति सिद्धम् । श्रौतेऽप्यग्निहोत्रप्रवासोपस्थानपिण्डपितृयज्ञप्रायश्चित्तहौत्रर्त्विग्वरणान्त्ये-ष्ट्यादिकं834 स्वकीयमेवाश्वलायनीयैर्गृह्यते । तथा तैत्तिरीयैर्वाजसनेयिभि-रपि यावत्स्वशाखोक्तं हौत्रं स्वकीयमेव गृह्यते, तस्मादनुक्तस्यैवान्यत्र ग्रहणमिति न्याय्यम् । `ऋग्वेदेन होता करोति,' `यजुर्वेदेनाग्निहोत्र'मिति वाक्यद्वयमपि स्वशाखानुक्तयोर्हौत्राग्निहोत्रयोः प्रापकं न तु स्वशाखोक्त-बाधकं ज्ञेयम् । अन्यथाऽऽश्वलायनोक्ताग्निहोत्रादेः आपस्तम्बहिरण्यकेशि-बोधायनकात्यायनाद्युक्तदर्शपूर्णमासादिहौत्रस्य तदनुष्ठानपरम्परायाश्च परि-त्यागप्रसङ्गात् ।

[¤ 106]

नन्वाश्वलायनाः कात्यायनाश्च स्वीयमेवाग्निहोत्रं हौत्रमनुतिष्ठन्ति । आपस्तम्बादयस्तु835 प्रायशो व्यभिचरन्ति । तथा हि । दर्शपूर्णमासाग्रयण-पशुचातुर्मास्यसौत्रामणिषूक्तमपि स्वीयं हौत्रं परित्यज्याश्वलायनीयं स्वी-कुर्वन्ति तत्र कथमितिकर्तव्यतानिर्णय इति । सत्यमेवोक्तम् । अन्ध-परम्परयाऽनुतिष्ठन्ति836 बहवः । विचारचतुरास्त्वनुक्तमेवान्यत्र संगृह्यानु-तिष्ठन्ति । न तूक्तं स्वकीयं परित्यजन्ति । ननु बह्वनुष्ठितिरन्धपरम्परा कथं भवितुमर्हति शिष्टपरम्परैवेति चेन्न । न्यायाननुगृहीतस्य837 शिष्टपरम्परात्वं न वक्तुं शक्यते । किं त्विदानीमन्धपरम्परयैवानुष्ठानं प्रायशो दृश्यते । क्वचिदेव विचारपूर्वकम् । तदेव किञ्चित् प्रपञ्च्यते ।

[¤ 107]

`यजुषाऽऽध्वर्यव'मिति श्रुत्या `यजुर्वेदेनाध्वर्यु'रिति कल्पसूत्राच्चै`-शतमध्वर्युशाखा' इति न्यायवित्समयाच्चापि याजुर्वैदिकमाध्वर्यवं चतुर्वेदे साधारणं सर्वश्रुतिस्मृतिपुराणन्यायप्रसिद्धम् । तत्र याजुषाणां तु निर्विवादं स्वसूत्रस्यैवाध्वर्यवत्वात् । ऋक्सामाथर्वशाखिनां तु स्वसूत्रे तदभावात् `तस्मादय आधातव्याः,' `अयश्च स्वाध्यायप्रवचने च,' `जायावान् दश-मेऽहन्नग्नीनादधीत,' `जातपुत्रः कृष्णकेशोऽग्नीनादधीत,' `आहृत्य विधिवद् दारानग्नींश्चैवाविलम्बय'न्नित्यादिवाक्यात्838`अग्निहोत्रफला वेदा' इति भारतोक्तेः । `अनाहिताग्निता चैवे'ति सूतसंहितायां दशविधोपपातकेष्वनाहिताग्निताया अपि ग्रहणाच्च । `अर्थी समर्थो विद्वानपर्युदस्त' इत्याद्युक्तप्रकारेण सत्यधिकारे त्रेताग्निपरिग्रहस्य ब्राह्मणत्वावच्छेदेनावश्यमनुष्ठेयतया प्राप्तत्वाच्च । किञ्चन839 सूत्रं यजुःशाखीयं तैर्ग्राह्यमग्निहोत्रादिश्रौतानुष्ठानसिद्ध्यर्थम्।तत्र कल्पसूत्राणि याजुषाणि बहूनि सन्ति । तत्र बह्वृचादीनां स्वमातामहीयं याजुषं सूत्रं ग्राह्यतया प्राप्तम्। तथा सति `यथा कन्या तथा हवि'रित्यादीनि पूर्वोदाहृतवाक्यान्यबाधितानि स्युः शिष्टाचारोऽप्यबाधितो840 भवेदिति841 । स्वजातौ करहाटादिवद्भिन्नशाखानुपलब्धौ तथा पूर्वोक्तकुण्डमण्डपदक्षिण-द्वारन्यायो देशाचारादिसम्बन्धैक्यबलादनुसर्तव्यः ।
[¤ 108]

एवं सोपपत्तिके निर्दोषे शास्त्रार्थे सत्यपि क्वचिद्देशस्थसंज्ञका महा-राष्ट्राः स्वमातामहीयमापस्तम्बकल्पसूत्रं842 परित्यज्य बौधायनसूत्रेणानुष्ठानं कुर्वन्ति । तथा चित्तपावना अपि सर्वे स्वसम्बन्धसूत्रं हिरण्यकेश्याख्यं त्यक्त्वा बौधायनसूत्रानुसारिणो दृश्यन्ते । करहाटा अपि सर्वदेशाचारादि-सम्बन्धरहितं बौधायनीयं स्वीकुर्वन्ति । देशैक्यादियुक्तियुक्तमापस्तम्बं न गृह्णन्ति । देवरक्षका अपि हिरण्यकेशिसूत्रं मातामहीयमेव संत्यज्य बौधा-यनानुसारिण एव दृश्यन्ते । एवमन्यदप्युदाहार्यम् ।

[¤ 109]

ननु किमर्थमेवमनुतिष्ठन्तीति चेत्तत्र केचिदेवं वदन्ति । आपस्तम्बसूत्रे हिरण्यकेशिसूत्रे च याजमानबाहुल्यात्843 । बौधायनसूत्रे च तदल्पत्वात् तत्पठनभियेति । केचिदनभियुक्ताः सर्वैर्बह्वृचादिभिर्बौधायनीयमेव ग्राह्य-मिति वदन्ति । तदुपोद्बलकतया प्रयोगकारैः कल्पितानि वाक्यानि कानि-चिदुदाहरन्ति ।

`आध्वर्यवं याजमानं यत्र844 सूत्रे न पठ्यते ।

तत्र बौधायनं ग्राह्यं बह्वृचादिभिरादरात्'॥ इति ।

केचिदन्यवाक्यमुदाहरन्ति

`यजुषां बहुशाखित्वात्कां शाखामवलम्बयेत् ।845

बौधायनेन कर्तव्यं बह्वृचादिभिरादरात्'॥ इति ।

आपस्तम्बीयग्रन्थेऽपि कानिचिद्वाक्यान्युपलभ्यन्ते ।

`आध्वर्यवं बह्वृचाद्यैरापस्तम्बेन कारयेत् ।

बौधायनं न च ग्राह्यं शाखाविच्छेददर्शनात् ॥

आपस्तम्बेन कर्तव्यमृक्सामाथर्वशाखिभिः ।

आपस्तम्बस्य चाभावे बौधायनमथापि वा'॥ इति ।

`सत्याषाढेन कर्तव्यं', `भारद्वाजेन कर्तव्य'मित्यपि वाक्यरचनाऽ-स्मदादिभिरपि कर्तुं शक्या । एतादृशपौरुषवाक्यबलेन कमप्यर्थं846 निर्णेतुं न शक्यते। ननु ग्रन्थकारैर्लिखितवाक्यानां भवत्वेवार्षत्वं, किमर्थं पौरुषेयत्वशङ्केति चेन्न। श्रुतिस्मृतिपुराणेषूदाहृतवाक्यानुपलब्धेः । शिष्टाचारविरोधाच्च ।

[¤ 110]

सर्वज्ञचक्रवर्तिनोऽप्यप्पय्य847दीक्षितप्रभृतयश्छन्दोगाः स्वदेशे विद्यमानमपि बौधायनमुपेक्ष्य स्वमातामहीयेनापस्तम्बेनाग्निहोत्रादिसप्तहविर्यज्ञसंस्थारूपम-ग्निष्टोमादिसप्तसोमसंस्थारूपं च श्रौतानुष्ठानं कृतवन्त इति सर्वजन-प्रसिद्धिः848`आध्वर्यवं याजमानमि'त्यादि वाक्यमार्षं चेत्ते कथं प्रेक्षावत्प्रवृत्तिशीलास्तत्परित्यजेयुः849।अद्यापि तद्वंशीयानां गृहे श्रौतानुष्ठानमापस्तम्बीयमेव दृश्यते । एवमान्ध्रे देशे850 कर्णाटकदेशे च बह्वृचादीनां गृहे स्वस्वमातामहीयमापस्तम्बानुष्ठानमुपलभ्यते । नन्वेवं चेत्तर्ह्यापस्तम्बेन कर्तव्यमित्यादिवाक्यस्यार्षत्वमस्तु । तस्य सूत्रस्य प्राथम्याद् द्राविडान्ध्रकर्णाटकदेशनिवासिभिर्बह्वृचादिभिः परिगृहीतत्वाच्च । इति चेन्न । उक्तदेशेष्वपि येषां मातामहीयं बौधायनसूत्रं तैस्तदेव परिगृहीतं तस्मान्नार्षत्वमापस्तम्बेन कर्तव्यमिति वाक्यस्य ।

[¤ 111]

हौत्रोद्गात्रयोरनुष्ठानयोरन्धपरम्परा देशविशेषे851 च पूर्वमेव प्रदर्शिता । अथाग्न्याधानेऽप्यन्धपरम्परा देशविशेषेण852 दृश्यते । तदपि किञ्चिदुच्यते । आधानं द्विविधमर्धाधानं सर्वाधानं853 च तयोर्लक्षणमुक्तं धर्मशास्त्रे ।

`अर्धाधानं स्मृतं श्रौतस्मार्ताग्न्योस्तु पृथक्कृतिः ।

सर्वाधानं तयोरैक्यकृतिः पूर्वयुगाश्रिता'॥ इति ।

ननु854

`अग्निहोत्रं गवालम्भः संन्यासः पलपैतृकम् ।

देवराच्च855 सुतोत्पत्तिः कलौ पञ्च विवर्जयेत्'

इति वाक्येनाग्निहोत्रस्य कलौ निराकृतत्वात्कथमर्धाधानं कलौ प्रशस्तं सर्वाधानं निषिद्धमिति । न चेदं वाक्यमत्यन्तनिषेधपरम् ।

`चत्वार्यब्दसहस्राणि चत्वार्यब्दशतानि च ।

कलेर्यदा गमिष्यन्ति तदा त्रेतापरिग्रहः'

इति प्रतिप्रसववाक्येन पुनर्विधानात्। त्रेतापदं त्रेतापिरमिति ग्रन्थकाराः । न कर्तव्य इति वाक्यशेषः ।

[¤ 112]

नन्विदानीमुक्तकालस्याप्यतिक्रमात्856 कथमग्निहोत्राद्यनुष्ठानमिति । न चोक्तवाक्यस्य सर्वाधानपरत्वेन व्याख्यानात् ।

`यावद्वर्णविभागोऽस्ति यावद्वेदः प्रवर्तते ।

अग्निहोत्रं च संन्यासस्तावत्कार्यः कलौ युगे'

इति धर्मशास्त्राच्चार्धाधानपूर्वकमग्निहोत्राद्यनुष्ठानमेकवैणवदण्डधारणरूपः परमहंसाख्यः संन्यासाश्रमस्वीकारो वर्णविभागो वेदप्रवृत्तिश्च यावल्लोके वर्तते तावत्कर्तव्यमिति तीर्थकारैः सर्वैरपि निर्णीतम् ।

[¤ 113]

एवं सतीदानीन्तना अपि857 केचिदविचारशीलाः सायंप्रातरौपासनहोम-दर्शपूर्णमासस्थालीपाकादिगृह्योक्तानुष्ठानकरणभिया सर्वाधानमेव कुर्वन्ति । तदुपोद्बलकाय पूर्वयुगाश्रितेति वाक्यशेषमन्यथा वर्णयन्ति । पूर्वयुगः कलेः पूर्वार्ध इति । तत्र श्रुतार्थपरित्यागोऽसन्दिग्धवाक्ये लक्षणाकल्पनारूपो दोषश्च प्रसज्येयाताम्858 । किं च शिष्टाचारविरोधश्च । आधानोत्तरं प्राप्तानां सर्वस्मार्तकर्मणां गृह्याग्न्यभावादननुष्ठानं लौकिकाऔ!259836 वा तत्कर्मेति बहवो दोषाः प्रसज्येरन् । दैवाद्विच्छिन्नेऽइ!259836ग्नहोत्रे पुनराधाने च प्राप्ते लौकिकाग्नौ निर्मन्थ्याग्नौ859 वा ब्रह्मौदनाद्यनुष्ठानमपि प्रसज्येत । तन्न समीचीनम् । यतः सूत्रकारैराधानप्रकरणेऽ`पराह्णेऽधिवृक्षसूर्ये वोपासनादग्निमाहृत्यापरेण गार्हपत्यायतनंब्राह्मौदनिकमादधाती'त्यर्धाधानमेवाभ्यर्हितंपूर्वमिति न्यायात् प्रथममुक्तम् । एवमन्येऽपि कल्पसूत्रकाराः । शिष्टा अपीदानीन्तना द्राविडा आन्ध्राः कर्णाटका महाराष्ट्राः कात्यायनाश्चार्धाधानमेव प्रायशः860 कुर्वन्ति ।

[¤ 114]

केचिद्देशस्था ब्राह्मणा बह्वृचा आपस्तम्बसूत्रानुष्ठानपरा `औपासनं वा सर्व'मिति सूत्रवाक्यं सर्वाधानपरं चतुर्युगसाधारणं सर्वाधानपरं मत्वा सर्वाधानमेवेदानीमप्यन्धपरम्परयाऽनुतिष्ठन्ति । एवमेव केचिन्महाराष्ट्रा बह्वृचा बौधायनसूत्रानुष्ठानपरास्तथा चित्तपावना बह्वृचा हिरण्यकेशिनश्च करहाटाः सर्वे देवरक्षकाश्च कात्यायना अपि केचित्केचिन्मैत्रायणीया-श्चोषःकाले स्नानभियोद्धरणपक्षेणाग्निहोत्राद्यनुष्ठानं चतुर्षु वेदेषु प्रोक्तं सर्वैः कल्पसूत्रकारैरप्यतिप्राशस्त्येनोक्तं तत्परित्यज्यान्धपरम्परया गतश्रीकर्तृक-मजस्रधारणरूपमाहवनीयस्याजस्रपक्षेणाग्निहोत्राद्यनुष्ठानं कुर्वन्ति861

[¤ 115]

नन्व`जस्रान्वा धारयेयु'रिति द्वैधसूत्रेऽजस्रधारणस्यापि विकल्पेनोक्तत्वात् तस्य बौधायनशिष्यकृतत्वाच्च तत्सूत्रानुसारिणो बह्वृचा अजस्रधारणं कुर्वन्ति । हिरण्यकेशिनस्तु `नित्यं गतश्रियो धार्यते आयुष्कामस्य वे'ति स्वसूत्रे आयुष्कामानां विकल्पेनाजस्रधारणस्योक्तत्वात्ते काम्यपक्षमेव स्वीकुर्वन्ति । तत्र को विरोधः । इति चेन्न । श्रुतौ प्रायशोऽजस्रधारण-पक्षानुपलब्धेरुद्धरणपक्षस्यैव सर्वत्रोपलब्धेश्च । तथा च श्रुतयः । `उद्धराहवनीयमित्यपराह्णमाहोद्धराहवनीयमिति प्रातराहे'त्यैतरेये, `तदाहु-र्यस्यामिनुद्धृतमादित्योऽभ्युदियाद्वाऽभ्यस्तमियाद्वा प्रणीतो प्राग्घोमादुपशाम्येत् का तत्र प्रायश्चित्तिरिति तत्रैवोद्ध्रियमाण उद्धर पाप्मान' इति मन्त्रवर्णाच्च । `यदग्निमुद्धरति । वसवस्तर्ह्यग्नि'रिति यजुर्ब्राह्मणे । `यस्याग्निमनुद्धृतसूँ!261253र्योऽभिनिम्रोचति, यस्याइ!261253ग्नमनुद्धृतँ!261309 सूर्योऽभ्युदेती'ति च । आथर्वणेऽपि `यद्गार्हपत्यात्प्रणीयते प्रणयनादाहवनीय' इति । एवं बहूनि वाक्यानि सन्ति। तान्यत्र ग्रन्थबाहुल्यभयान्नोदाहृतानि । किं च प्रोक्तम् । सर्वेऽपि कल्पसूत्रकारा ऊहापोहकुशलाः862 `अर्थायार्थायाइग्निंप्रणयेदि'ति पठन्ति । अजस्रधारणं तु कालविशेष एव ।863 `आधानाद् द्वादशरात्रमजस्रा अत्यन्तं तु गतश्रिय' इत्याश्वलायनः । एवमन्येऽपि कात्यायनापस्तम्बादयः । आधानोत्तरं द्वादशरात्रमजस्रधारणं ततः सायंप्रातरुद्धरणं यावज्जीवमाहिताग्नेर्मरणसंशयेऽजस्रधारणम् । इष्टिपशु-सोमादिषु क्रतुषु चारभ्यासमाप्तिपर्यन्तमजस्रधारणं वर्णयन्ति ।

[¤ 116]

सर्वदाऽजस्रधारणं सर्वैः सूत्रकारैर्गतश्रियामेव वर्णितम् । तदेव युक्तम्। कुतः864 । तेषां कल्मषाभावात् । ननु के गतश्रियः । येषां कल्मषं नास्ति ते वक्तव्या इति । उच्यते । `ऋचः सामानि यजूँ!262251षि । सा हि श्रीरमृता सता'मिति श्रुत्या ये साङ्गोपाङ्गवेदत्रयाध्यायिनस्त865 एव गतश्रियो ब्राह्मणेषु ज्ञेयाः । क्षत्रियेषु राजन्या अभिषिक्तराजपुत्राः । वैश्येषु ग्रामण्यः ग्रामाध्यक्षाः । `त्रयो वै गतश्रियः शुश्रुवान्ग्रामणी राजन्य' इति यजुर्ब्राह्मणे श्रूयते । अस्यार्थः866 । वेदत्रयाध्यायी ब्राह्मणः शुश्रुवानिति बहवो व्याख्या-तारः867 । मानव868सूत्रभाष्यकारैः कुमारिलभट्टाचार्यैस्त्वेवमर्थो वर्णितः । सदैव श्रूयत इति शुश्रुवानूहापोहसमर्थोऽत्र शुश्रुवान्त्स हि पदवाक्यप्रमाणज्ञेषु स्वेषु सम्यक्परिज्ञात इति न श्रुतमात्रेण शुश्रुवांस्तस्य वर्जनीयत्वान्मूर्खस्यानधिकारित्वादिति । वेदेऽपि `शुश्रुवासॐ!263254 वै कवय' इत्युक्तम् । यः सर्वत्रोहापोहकुशलः स एव कविर्भवति । अत एव यास्कैर्निरुक्तकारैरप्युक्तं `कविः क्रान्तदर्शनो भवति कवतेर्वा प्रसुवति भद्र'मिति ।

[¤ 117]

इदानीं तु गतश्रीत्वं कस्यापि नास्ति तादृशाध्यापनाभावात्869 । एवं सत्यपि केचिन्मन्दमतयः श्रुत्यर्थानभिज्ञा वयं गतश्रिय इति किञ्चिद्विद्या-धनमदमोहिता अजस्रपक्षमनुतिष्ठन्ति । चित्तपावना हिरण्यकेशिनः काम्याधानं कुर्वन्तीत्युक्तम् । तदप्यत्यन्तमसमीचीनमेव । तस्य सर्वत्र निन्दाश्रवणात् ।

`यस्तु नित्यमनादृत्य काम्यं कर्म करोति यः ।

तस्यारित्वं870 व्रजेन्मन्त्रो न तस्मात्तत्परो भवेत् ।

काम्यकर्मप्रसक्तानां तावदेव भवेत् फलम् ।

निष्कामं भजतामीशमखिलाभीष्टसंपदः'871

इति स्मृतौ ॥

`अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।

यष्टव्यमेवेति मनः समाधाय स सात्त्विकः'

इति भगवतापि नित्ययज्ञस्य सात्त्विकत्वमुक्तम् ॥

`अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।

इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्'

इति काम्ययज्ञस्य राजसत्वमप्युक्तम् ।

`मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ।

नित्यनैमित्तिके कुर्यात्प्रत्यवायजिघासँ!264179या'872!264385

इति सुरेश्वराचार्योक्तेः ॥ मोक्षस्तु सर्वापेक्षस्तत्प्राप्त्यैव873 गर्भजन्मजरा-मरणादिसर्वानिष्टनिवृत्तेः श्रुतिस्मृत्युक्तसर्वकर्मणां विविदिषाद्वारा तत्प्राप्ति-हेतुत्वाच्च । तस्माद्धिरण्यकेशिनां नित्याधानपरित्यागः काम्यपक्षस्वीकार-श्चान्धपरम्पराप्रयुक्त एव । एवं बह्वृचानामपि स्ववेदे स्वसूत्रे बौधायनसूत्रे चोक्तमुद्धरणपक्षं परित्यज्य द्वैधसूत्रोक्तमत्यन्ताशक्तविषयमजस्रधारणमपि ज्ञेयम् । किं बहुनाऽधुना कस्यापि गतश्रीत्वाभावादजस्राहवनीयधारणमपि सर्वाधानवदन्धपरम्पराप्रयुक्तमेवेति दिक् ।

[¤ 118]

हविःश्रपणेऽपि याज्ञिकाः केचन पिष्टानि पात्र्यां874 समोप्य भर्जनं कुर्वन्ति तदपि त्वरितं कर्मसमाप्त्यर्थं वा काष्ठगोमयादिव्ययभयाद्वेति ज्ञेयम्। सर्ववेदेषु सर्वसूत्रेषु जैमिनीयन्यायग्रन्थेषु च पुरोडाशार्थपिष्टस्य भर्जनाश्रवणात् । अत एव कात्यायनाः पिष्टभर्जनं न कुर्वन्ति । आपस्तम्बादयस्तु प्रायशो भर्जनमेव कुर्वन्ति । केचन विवेकपरा एव भर्जनमकृत्वा कपालेष्वेव यथा पुरोडाशः सुशृतो भवति तथा कुर्वन्ति तदेव श्रुतिसूत्रन्यायविदां संमतम् । अन्यथा कपालतापन-पुरोडाशाभिज्वलनपरितापनसाङ्गारभस्माध्यूहनादीनां दृष्टार्थसंस्काराणाम-दृष्टार्थतापत्तेः । तस्मात्पिष्टभर्जनमप्यन्धपरम्पराप्रयुक्तमेवेति निर्विवादम् ।

Yüklə 3,53 Mb.

Dostları ilə paylaş:
1   ...   8   9   10   11   12   13   14   15   16




Verilənlər bazası müəlliflik hüququ ilə müdafiə olunur ©muhaz.org 2024
rəhbərliyinə müraciət

gir | qeydiyyatdan keç
    Ana səhifə


yükləyin