|
|
səhifə | 8/16 | tarix | 02.11.2017 | ölçüsü | 3,53 Mb. | | #26878 |
| [¤ 61]
ननु पूर्वं नित्यनैमित्तिककाम्यप्रायश्चित्तभेदेन कर्मणां चातुर्विध्यमुक्तम्। इह तु श्रौतस्मार्तसदाचारभेदेन त्रिविधं कर्मेति वदता पूर्वोत्तरविरोधः परिहर्तव्य इति । तत्रैवमाह । अत्रोक्तानि त्रिविधान्येव कर्माणि प्रत्येकं पूर्वोक्तप्रकारेण चतुर्धा भिद्यन्त इत्यविरोधः550 । किं च च्छन्दोगब्राह्मणे `अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासत' [CU 5.10.3] इति कर्मणा-मिष्टापूर्तदत्तभेदेन त्रैविध्यमुक्तं तत्रे`ष्टमग्निहोत्रादि श्रौतं, पूर्तं वापीकूप-तडागादिकरणं551, दत्तं बहिर्वेदिदानादी'ति552[REF???] भगवत्पादै-श्छान्दोग्यभाष्ये व्याख्यातत्वात् तान्यपि निरुक्तश्रौतस्मार्तसदाचारेभ्यो न भिन्नानीति ज्ञेयम् ।
किं च तत्रैव निषिद्धान्यपि प्रोक्तानि ।
`स्तेनो हिरण्यस्य सुरां पिबश्चँ!183559
गुरोस्तल्पमावसन्553 ब्रह्महा च ॥
एते पतन्ति चत्वारः
पञ्चमश्चाचरस्तैँ!183865ः' ॥ इति [CU 5.10.9]।
आथर्वणेऽपि `समूलो वा एष परिशुष्यति योऽनृतमभिवदति एतस्मान्ना-र्हाम्यनृतं वक्तु'मिति [PU 6.1] । तत्रैवान्यदपि `प्राणं वा एते प्रस्कन्दन्ति यद्दिवा रत्या संयुज्यन्त' इति [PU 1.13] । तैत्तिरीयेऽपि `नानृतं वदेन्न मा सँ!183959मश्नीयान्न स्त्रियमुपेयादि'ति[TS 2.5.5.6]554 । `न स्त्रियमि'ति त्वनृतुविषयम् । तत्रैव `तस्माद् ब्राह्मणाय नापगुरेत न निहन्यान्न लोहितं कुर्यादि'ति [TS 2.6.10.2] । `तस्माद् ब्राह्मणो न परोच्यः' [TS 2.5.11.9] । `तस्मात्प्रदरादुदकं नाचामेदि'त्यादि555[TS 1.5.10.7] । ऋग्वेदेऽपि `स॒प्त म॒र्यादा॑ः556 क॒वय॑स्ततक्षु॒स्तासा॒मेका॒मिद॒भ्यं॑हु॒रो गा॑त्' [RV 10.5.6] । अस्यार्थो निरुक्तकारो यास्क आह557 `सप्तैव मर्यादाः558 कवयश्चक्रु-स्तासामेकामप्यभिगच्छन्नंहस्वान्559 भवति स्तेयमतल्पारोहणं ब्रह्महत्यां भ्रूणहत्यां सुरापानं दुष्कृतस्य कर्मणः पुनः पुनः सेवां पातकेऽनृतोद्यमि'ति [NR 6.27]। पुनः पुनरित्यभ्यासाद् दुष्कृतस्य कर्मणो560 विषमकाले सकृत्सेवायां दोषबाहुल्यं नास्तीति ध्वनितम् । एवं स्मृतिपुराणादिषु विधिप्रतिषेधपराणि वाक्यानि बहूनि सन्ति तान्यत्र विस्तरभयान्नोदाहृतानि । तस्मात्सर्वकर्मणामुक्तप्रकारेण श्रुतिस्मृतिसदाचारेष्वेवान्तर्भाव इत्यलं प्रसङ्गागतचिन्तया । प्रकृतमनुसरामः।
[¤ 62]
कर्मत्रयप्रतिपादककाण्डानि मुख्ययजुर्वेदे तैत्तिरीये विद्यन्त इत्युक्तम् । तदेव प्रपञ्च्यते । त्रिपञ्चाशत्काण्डात्मको यजुर्वेदः । तत्र `इ॒षे त्वे॒'त्यादि पुरोडाशकाण्डमारभ्यापाद्येष्टि561काण्डपर्यन्तान्यष्टचत्वारिंशत्काण्डानि प्राय-शस्त्रेताग्निसाध्यश्रौतकर्मपराणिमन्त्रब्राह्मणरूपाणि । एकाग्निकाण्डत्वेन562 प्रसिद्धं `प्रसुग्मन्ता॑ धियसान॒स्य॑' [ĀpMP 1.1.1], `उ॒ष्णेन॑ वायवुद॒केनेही'ति563[ĀpMP 2.1.1] प्रपाठकद्वयात्मकं564 विवाहादिपञ्चदशसंस्कारसप्तपाक565यज्ञ-संस्थामन्त्रमण्डितंस्मार्तकाण्डम्।स्वाध्यायब्राह्मणकाण्डं566 याज्ञिक्युपनि-षत्काण्डं च सदाचारात्मकम् । सांहित्युपनिषत्काण्डं567 तु सगुणब्रह्मप्रति-पादनपरम् । वारुण्युपनिषत्काण्डं568 तु शुद्धब्रह्मप्रतिपादनपरमिति विवेकः । स्वाध्यायब्राह्मणकाण्डस्य569 याज्ञिक्युपनिषत्काण्डस्य570 च सदाचारपरत्वं कथमिति नाशङ्कनीयम्।तयोः काण्डयोस्तन्मन्त्रतद्ब्राह्मणबाहुल्योपलब्धेः571। तथा हि । स्वाध्यायब्राह्मणस्यप्रथमेऽनुवाके यज्ञोपवीतप्राचीना-वीतनिवीतादयः572 साख्यायिकाः573 प्रतिपादिताः । द्वितीये सन्ध्या-वन्दनविधिरभिहितः । ततश्चतुर्ष्वनुवाकेषु कूश्माण्डहोममन्त्राः574 । ततोऽ-नुवाकद्वये तद्ब्राह्मणम् । नवमे तु ब्रह्मयज्ञोत्पत्तिः । दशमे575 पञ्चमहायज्ञविचारः । ततः पञ्चस्वनुवाकेषु सपरिकरो ब्रह्मयज्ञ-प्रयोगस्तत्प्रशंसातदनध्यायधारणाध्ययनवेदवित्प्रशंसादयश्च । ततोऽनुवाकद्वये याजन576प्रतिग्रहदोषपरिहाराय वेदपारायणविधिः । ततोऽवकीर्णिनो होमाभिमन्त्रणरूपं577 प्रायश्चित्तमुक्तम् । तत एकोनविंशे सन्ध्यावन्दनाङ्गं578 शिशुमारोपस्थानम् । विंशेऽनुवाके तदङ्गमेव प्राच्यादिदिगुपस्थानं मुन्युपस्थानमिति579 । नारायणीयापरपर्याये याज्ञिक्युपनिषत्काण्डे तु सदाचारमन्त्रा बहवोऽभिहिताः । तत्र कांश्चिदुदाहरिष्यामः । प्रथमेऽनुवाके निर्गुणब्रह्मप्रतिपादकाः केचन मन्त्राः । ततस्तत्रैव रुद्रगण-पतिगायत्र्यादयः580 । ततो मृत्तिकास्नानशुद्धस्नानमन्त्राः । ततोऽरिष्टनिर-सनार्था दुर्गासूक्तादयो नानाविधमन्त्रा581 अपमृत्युनाशका मन्त्राः सकल-होमविरजाहोमवैश्वदेवभोजनादिबहवो582 मन्त्रा आम्नाताः । ततः सत्यादि-संन्यासान्तसाधनसहिता ब्रह्मविद्याऽऽम्नाता । तस्मादुक्तप्रकारेण श्रौतस्मार्त-सदाचाराख्यत्रिविधकर्मप्रतिपादनकाण्डमण्डिता तैत्तिरीयशाखैकैवोपलभ्यते नान्या । तस्मात्सैव सर्वशाखिभिरपेक्ष्येति583 युक्तमेवोक्तम् ।
[¤ 63]
ननु च्छन्दोगानामपि तैत्तिरीयशाखिनामिव स्मार्तकाण्डं `देव सवितः प्रसुव यज्ञं प्रसुवे'त्यध्यायद्वयात्मकं मन्त्रब्राह्मणत्वेन प्रसिद्धमस्ति [REF???] । सर्वेऽपि च्छन्दोगाः छान्दोग्योपनिषदः पूर्वं तत्काण्डाध्ययनमपि कुर्वन्ति तस्मिन्सर्वे संस्कारमन्त्राः पाकयज्ञसंस्थामन्त्राश्चाम्नाताः584 । तेषां कुतस्तैत्तिरीयापेक्षेति चेत्सत्यमुक्तम् । यद्यपि सामशाखिनामृक्शाखिनामिव नात्यन्तं तैत्तिरीयापेक्षा तथापि तेषां सदाचारकाण्डाभावात्तदर्थमस्त्येव तैत्तिरीयापेक्षा । अत एव च्छन्दोगपरिशिष्टकारैर्याज्ञिक्युपनिषद्याम्नाता `आपः पुनन्त्वा'दयः सन्ध्यावन्दनादिमन्त्रा परिगृहीताः [REF???] । एव-मन्यैरपि परिशिष्टकारैः [REF???] स्नानसन्ध्यादिसदाचारमन्त्रा नारायणीयो-पनिषद्गता एव585 प्रायशः परिगृहीता इति सिद्धम् । अत एव तैत्तिरीयाणां परिशिष्टग्रन्थोऽपि परिशिष्टकारैर्न ग्रथितः । महानिबन्धकारा हेमाद्रिमाधवाचार्यप्रभृतयोऽपि यथा बह्वृचपरिशिष्टे586 छन्दोगपरिशिष्टे कात्यायनपरिशिष्ट इत्युदाहृत्य तत्तत्परिशिष्टवाक्यानि स्वस्वनिबन्धे लिखन्ति न तथा तैत्तिरीयपरिशिष्ट इति । तस्याभावात् । तैत्तिरीयभिन्नासु शाखासु सदाचारकाण्डाभावात्तत्परिशिष्टकाराः587 प्रवृत्तास्तस्यास्तु तत्सद्भावान्न प्रवृत्ता इति ज्ञेयम्। परिशिष्टाभावोऽपि तैत्तिरीयशाखाया अन्यानपेक्षत्वे महान्हेतुरित्यपि सिद्धम् । तद्वद्यजु-र्विधानाभावोऽपि588 । यथा ऋग्वेदे सामवेदे च विद्यमानानां मन्त्राणां प्रायशःश्रौतविनियोगाभावाच्छौनकाचार्यैरृग्विधानाख्यो589ग्रन्थोऽभिहितः । तथा सामवेदविधाने तद्ब्राह्मणमेव प्रसिद्धतया वर्तते590 । यजुर्वेदमन्त्राणां तु प्रायशस्तद्ब्राह्मण एव विनियोगदर्शनाद्यजुर्विधानाख्यो591 ग्रन्थोऽपि नास्ति । स्ववेदेऽविद्यमानो विषयो वेदान्तरे पर्यालोच्य पुरातनैः पदवाक्यप्रमाणज्ञैः शिष्टैः परिगृहीतः592 परिशिष्ट इत्यर्थः ।
[¤ 64]
ननु च्छन्दोगानां बह्वृचानामिव नात्यन्तं तैत्तिरीयापेक्षेति वदता593 बह्वृचानां सर्वशस्तैत्तिरीयापेक्षा ध्वनिता तत्कथमिति । उच्यते594 । श्रौतस्मार्तसदाचाराख्येषु त्रिष्वपि कर्मसु तैत्तिरीयशाखीयमन्त्रग्रहणा-दत्यन्तापेक्षा बह्वृचानाम्595 । छन्दोगानां तु श्रौतसदाचारयोरेव तद्ग्रहणा-न्नात्यन्तमिति596 सिद्धम् । यजुर्वेदावान्तरभेदानां वाजसनेयिमैत्रायणीया-दीनामपि597 सदाचारकर्मणि तैत्तिरीयापेक्षेत्युक्तमेव598 पूर्वम् ।
[¤ 65]
एवं सत्यपि केचन बह्वृचा एव वेदतात्पर्यानभिज्ञाः599 सर्वकर्मसु तैत्तिरीयशाखामुपजीव्य वर्तमानाः सन्तोऽपि स्वकरस्थखड्गेन स्वशिरश्छिन्दन्त600 इव तैत्तिरीयैः सह कलहायन्तो दृश्यन्ते । किमिति । वयमेव ज्येष्ठाः श्रेष्ठाश्च । ऋग्वेदस्य प्राथम्यात् । अस्मद्भिन्नशाखिनां सर्वेषामुपनयनादिकर्मसिद्धिरप्यस्मत्सूत्रोक्तानुष्ठानेन भवति।नास्माकं तथेति वदन्ति। तदर्थं कानिचिदर्थवादवाक्यान्यप्युदाहरन्ति स्वकीय-कारिकोक्तानि । तत्सर्वमत्रोदाहृत्य601 विचार्यते । तथा हि आश्वलायन-कारिकास्मृतौ602 ।
`मन्त्रैश्चैव स्वशाखोक्तैः कर्म कुर्याद्यथाविधि ।
अन्यथा कर्महानिः स्याद्बह्वृचानामयं विधिः'॥ इति ।
[REF???]
अत्र बह्वृचानामित्युपलक्षणं सर्वशाखिनाम् । अन्यथा स्मृत्यन्तरविरोधा-पत्तेः । तथा च स्मृतिः ।
`पारम्पर्यागतो येषां वेदः सपरिबृंहणः ।
तच्छाखं603 कर्म कुर्वीत तच्छाखाध्ययनं तथा' ॥ इति ।
[REF???]
किं च वसिष्ठोऽप्याह604 ।
`स्वशाखाविधिमुत्सृज्य त्वन्यस्य विधिमाचरेत् ।
अप्रमाणमृषिं कृत्वा त्वन्धे तमसि मज्जति ॥
स्वकं कर्म परित्यज्य यदन्यत्कुरुते605 नरः ।
अज्ञानादथ वा लोभात्स तेन पतितो भवेत्' ॥ इति ।
[REF???]
अनेन वाक्यद्वयेन सर्वेषां स्वीयकर्मपरित्यागेऽन्यदीयस्वीकारेऽ`न्धे तमसि मज्जती'ति वाक्यान्नरकप्राप्तिरथवा `पतितो भवे'दितिˇ606वाक्यादिह जन्मनि पातित्यं चोक्तम्607 । किं च तैत्तिरीयाच्छिद्रकाण्डे एतत्स्मृत्युपो-द्बलका श्रुतिरपि दृश्यते । `देवा॑ः पितर॒ः पित॑रो देवाः । यो॑ऽहम॑स्मि॒ स सन्य॑जे । यस्या॑स्मि॒ न तम॒न्तरे॑मि । स्वं म॑ इ॒ष्ट ँ!195492 स्वं द॒त्तम्।स्वं पू॒र्त ँ!195559 स्व ँ!195588 श्रा॒न्तम्। स्व ँ!195636 हु॒तम् । तस्य॑ मे॒ऽग्निरु॑पद्र॒ष्टा। वा॒युरु॑पश्रो॒ता । आ॒दि॒त्यो॑ऽनुख्या॒ता । द्यौः पि॒ता । पृ॒थि॒वी मा॒ता । प्र॒जाप॑ति॒र्बन्धु॑ः । य ए॒वास्मि॒ स सन्य॑ज' इति [TB 3.7.4-5]।
[¤ 66]
एवमेवैतरेयब्राह्मणेऽपि608 किंचित्पाठवैलक्षण्येनायं मन्त्र उपलभ्यते609[REF???] । अत्र वैद्यारण्यं610 भाष्यम् । `हे देवाः पितरः पालयितारो हे पितरो देवा द्योतनात्मका उभयविधा611 यूयं मद्विज्ञापनां शृणुतेति शेषः। योऽहमस्मि पुरा वर्णाश्रमाभ्यां यादृशाचारोऽस्मि स सन्यजे तादृशाचार एव सन्स्वोचिताचारस्य लोपमकृत्वा युष्मान्यजे । किं च यस्यास्मि यस्य पितुरहं पुत्रोऽस्मि तं पितरं नान्तरेमि तदीयस्याचारस्यान्तरायं न करोमि । `अवश्यं पितुराचारं मनसाऽपि न लङ्घयेदि'ति हि सर्वे वदन्ति [REF???] । तादृशस्य मे यदिष्टं तत्स्वं भवतु । इह लोके वषट्कारेण देवेभ्यो यद्दत्तं तद्युष्मत्प्रसादात्परलोके भोगाय612 ममैव स्वं भवतु । तथा दत्तं दक्षिणा-द्रव्यादिकं मम स्वं भवतु । पूर्तं पक्वमन्नादि पितृभ्यो दत्तं613 मम स्वं भवतु614। सर्वमेतद्यथा भवति तथा हे देवाः पितरश्च यूयमनुमन्यध्वम् । तस्य यथाशास्त्रं कुर्वतो मे ममाग्निरुपद्रष्टा समीपे स्थित्वा द्रष्टेत्यक्षरार्थः । अयं वायुरुपश्रोता समीपमभ्येत्य मद्वृत्तान्तं साक्षित्वेन शृणोति । आदित्योऽनुख्याता मदीयस्य वृत्तान्तस्यानुक्रमेण व्याख्याता615 । द्यौः पिता मम पितृस्थानीया । पृथिवी च मातृस्थानीया । प्रजापतिर्बन्धुस्थानीयः616 । यस्मादेवं तस्मादहं य एवास्मि यादृशाचारो यदीयस्य पुत्रो यद्देवता-साक्षिकश्चास्मीत्येतादृश617 एव सन्यजे यष्टुं योग्यतां मम कुरुतेत्यभि-प्रायः618 ।
[¤ 67]
किं चासेत्वाहिमाचलं शिष्टाचारोऽपि स्वशाखाध्ययनस्वशाखीयकर्मानु-ष्ठानरूप एव दृश्यते । एवं च सति619 बह्वृचानामयं विधिरित्यत्र बह्वृचपदस्योपलक्षकत्वं सिद्धम् । तत्रैवान्यदप्युक्तम् ।
`विप्रान्निमन्त्रयेच्छ्राद्धे बह्वृचान्वेदपारगान् ।
तदभावे तु चैवान्यशाखिनो वाऽपि चैव हि'॥ इति ।
[REF???]
अस्यापि वचनस्य बह्वृचप्राशस्त्यपरत्वमेव वक्तव्यं नान्यशाखिनिषेध-परत्वम्620। अन्यथा माधवाचार्योदाहृतबृहस्पतिवाक्यविरोधापत्तेः। तथा हि।
`यद्येकं भोजयेच्छ्राद्धे छन्दोगं तत्र भोजयेत् ।
ऋचो यजूंषि621 सामानि त्रितयं तत्र विद्यते ॥
अटेत622 पृथिवीं सर्वां सशैलवनकाननाम् ।
यदि लभ्येत पित्रर्थे साम्नामक्षरचिन्तकः ॥
ऋचा तु तृप्यति पिता यजुषा च पितामहः ।
पितुः पितामहः साआ!199955 छन्दोगोऽभ्यधिकस्ततः'॥ इति ।
[REF???]
शातातपस्त्वथर्वाणं प्रशंसति ।
`भोजयेद् यस्त्वथर्वाणं दैवे पित्र्ये च कर्मणि ।
दानं तदक्षयं चैव फलं तस्येति वै श्रुतिः'॥ इति ॥
[REF???]
एतदनुसारेणैव सर्वे धर्मशास्त्रप्रयोगकाराः श्राद्धप्रकरणे विश्वेदेवस्थानेऽथर्वणवेदी भोजनीयः पितृस्थाने बह्वृचः पितामहस्थाने याजुषः प्रपितामहस्थाने छन्दोगोऽशक्तेन तु पितृपितामहप्रपितामहस्थाने एक एव च्छन्दोगो भोजनीय इति वदन्ति ।
`द्वौ दैवे623 पितृकार्ये त्रीनेकैकमुभयत्र वा ।
भोजयेत्सुसमृद्धोऽपि श्राद्धे624 कुर्यान्न विस्तरम्'॥ इति
[REF???]
बहुस्मृतिपुराणादिषूक्तत्वात्625 । बह्वृचाभावेऽन्ये भोजनीया इति पूर्वोक्तमाश्वलायनवचनं स्वशाखाप्रशंसापरमिति सिद्धम् । किं च तत्रैवोक्तम् -
`कर्मणां याजुषादीनां स्वस्वशाखा न लभ्यते ।
ऋक्शाखाविहितं कर्म सम्मतं626 सर्वशाखिनाम् ॥
बह्वृचानां तु यत्कर्म यदि स्यादन्यशाखया ।
पुनश्चैवापि कर्तव्यं कुर्याद्बह्वृचशाखया'॥ इति ।
[REF???]
एतद्वचनद्वयमपि627 बह्वृचस्वप्राशस्त्यपरम्628 । अथवा श्राद्धप्रकरणे पाठात् संकटे याजुषादीनामज्ञानां629 स्वसूत्राभावे सामाथर्वणशाखीयसूत्रादिषु विद्यमानेषु प्रथमपरित्यागे मानाभावाद्बह्वृचसूत्रेणानुष्ठानं सर्वसम्मतमिति प्रदर्शितं पूर्ववाक्येन । द्वितीयवाक्येन तु बह्वृचानां याजुषादिशाखीयसूत्रानुष्ठाने630 कृते पुनः कालान्तरे स्वसूत्रोपलब्धौ तत्कर्तव्यमित्युक्तम् । एतावता यजुःसामशाखापेक्षया प्राथम्यमात्रेण ऋक्शाखायामाधिक्यं न सिद्ध्यति किंतु किंचिन्न्यूनभाव एव ।
[¤ 68]
कथमिति चेदुच्यते। ऋग्वेदस्तु प्रायश ऋगेकप्रधानत्वादेकविधः । यजुर्वेदो631 द्विविधः । तत्र ऋचोऽपि बह्व्य उपलभ्यन्ते । सामवेदस्त्रिविधः । साम्नामृगाधारत्वात्सामावयवानां स्तोभादीनां यजुष्ट्वाच्च । अत एव बृहस्पतिनोक्तम् । `ऋचो यजूंषि सामानि त्रितयं तत्र विद्यत' [REF???] इति । तत्र सामवेद इत्यर्थः । त्रितयपदं द्वितयपदस्याप्युपलक्षकम् । यजुर्वेदे द्वितयं विद्यत इति । पारिशेष्यादृग्वेदस्यैकविधत्वं प्रायशः सिद्धम् । किं च
`ऋचा तु तृप्यति पिता यजुषा च पितामहः ।
पितुः पितामहः साम्ना छन्दोगोऽभ्यधिकस्ततः' ॥
[REF???]
इति वचनाद् ऋग्वेदाद्यजुर्वेदस्याधिक्यं यजुर्वेदात् सामवेदस्याधिक्यमिति निर्विवादम् । तस्मादेवोक्तं बृहस्पतिना `यद्येकं भोजयेच्छ्राद्धे छन्दोगं तत्र भोजयेदि'ति [REF???] । किं चाश्वलायनेनापि ऋक्शाखिनां श्राद्धादौ कर्मणि परशाखयानुष्ठिते632 पुनःकरणमुक्तम् [REF???] । याजुषादीनां तु नोक्तम् । तत्राप्ययमेव हेतुः । ऋग्वेदस्य633 ऋगेकप्रधानत्वात् तादृश-स्यान्यस्य वेदस्याभावात् तेषामन्यशाखोक्तश्राद्धादिकरणे पुनः स्वशाखायां634 करणं युक्तमेव । याजुषाणां छन्दोगानां च देशान्तरे संकटविषये स्वशाखानुपलब्धौ ऋक्शाखोक्तश्राद्धादिकरणेऽपि न पुनःकरणम् । कुतः। यजुर्वेदे सामवेदे च प्रायेण ऋग्वेदस्यान्तर्भावाद् यजुःसामशाखिनामृक्शाखोक्तकर्मापि स्वशाखोक्तवदेव भवति । अत एव भगवताऽऽश्वलायनाचार्येण कृतस्य पुनःकरणरूपं गौरवमपि स्वीकृत्य ऋक्शाखिनामन्यशाखोक्तं कृतं चेत् स्वशाखया पुनरनुष्ठेयमित्युक्तम् । यजुःसामशाखिनां तु ऋक्शाखोक्तमपिˇ635 स्वकीयमेवेति लाघवात्पुनर्न कर्तव्यमित्युक्तम् । एवं भगवदाश्वलायनतात्पर्यमजानन्तः कृतस्य पुनःकरणरूपं गौरवमपि गुणमिति मन्यमाना वेदशास्त्रतात्पर्यानभिज्ञा इतरशाखिनां याजुषादीनां कृतस्य पुनरकरणरूपे लाघवाख्ये गुणे दोषं636 परिकल्प्य स्वकीयं गौरवरूपं दोषमेव गुणत्वेन स्वीकृत्य वयमेव श्रेष्ठा याजुषाः सामगा अस्मदपेक्षया निकृष्टा इति वृथाकलहशीला दृश्यन्ते ते विद्वद्भिरेव शिक्षणीयाः ।
[¤ 69]
ननु स्मृतिवाक्यमात्रेण कथमृग्वेदादाधिक्यंˇ637 यजुर्वेदस्य ततः सामवेद-स्येति638 । श्रुतिवाक्यानामपि तान्यपि639 कानिचिदुदाहरिष्यामः । ऐतरेय-ब्राह्मणे `ऋग्वेद एवाग्नेरजायत यजुर्वेदो वायोः सामवेद आदित्यादि'ति [AB 25.7]। तथा तैत्तिरीयब्राह्मणे
`ऋ॒ग्भ्यो जा॒तं वैश्यं॒ वˇर्ण्माआ॑॑!203769हुः ।
य॒जु॒र्वे॒दं क्ष॑त्रि॒यस्या॑हु॒र्योनि॑म् ।
सा॒म॒वे॒दो ब्रा॑ह्म॒णानां॒640 प्रसू॑तिः ।
पूर्वे॒ पूर्वेभ्यो॒ वच॑ ए॒तदू॑चुः'॥ इति [TB 3.12.9.2]।
सामवेदेऽपि `पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः साम्न उद्गीथो रस' इति [CU 1.1.2]। तत्रैव `अग्नेरृचो वायोर्यजू ँ!203991षि सामान्यादित्यादि'ति [CU 4.17.2]। अथर्वणवेदेऽपि641 `ऋचामग्निर्देवतं ... यजुषां वायुर्देवतं ... साआ!204181मादित्यो देवतं ... अथर्वणां642 चन्द्रमा देवतमि'ति [GB, Pūrvabhāga 1.29।
[¤ 70]
ननु एतावता प्रकृते किमायातमिति चेदृग्यजुःसाम्नामुत्तरोत्तरमाधिक्यं सिद्धमिति ब्रूयुः643 । नन्वभ्यर्हितं पूर्वमिति न्यायः सार्वजनीनस्तथा सति ऋग्वेदस्य प्राथम्यात्तदपेक्ष्येतरेषां वेदानां कथमाधिक्यमिति चेत्पूर्वो-दाहृतश्रुतिस्मृतिवाक्यादिति ब्रूमः । ननु तेषु वाक्येषु ऋग्वेदस्यैव पूर्व-भावित्वं दृश्यत644 इति चेद्भवतु पूर्वभावित्वमयज्ञकाण्डाद् अथर्वणवेदादा-धिक्यमपि भवतु तथापि यजुर्वेदात्सामवेदान्नाधिक्यं सिध्यति । किं च शौनकाचार्येणैव चरणव्यूहशास्त्रे एतत्स्पष्टमुदीरितम् । `तथा हि ऋग्वेद-स्यात्रेयगोत्रं ब्रह्मदैवत्यं गायत्रं छन्दो, यजुर्वेदस्य भारद्वाजगोत्रं विष्णुदैवत्यं त्रैष्टुभं छन्दः, सामवेदस्य काश्यपगोत्रं रुद्रदैवत्यं जागतं छन्दोऽथर्ववेदस्य बैजानगोत्रमिन्द्रदैवत्यमानुष्टुभं645 छन्द'646 इति । किं चाथर्ववेदस्योप-वेदस्थाने शस्त्रशास्त्राणि647 भवन्तीत्युक्तम् । ऋग्वेदादीनां यथोपवेदा आयुर्वेदादयस्तथाऽथर्ववेदस्योपवेदो नोक्तः648।
[¤ 71]
ननु `ब्रह्मत्वं चाप्यथर्वभि'रिति [REF???] विष्णुपुराणादिषूक्तत्वादथर्वण-ब्राह्मणे ब्रह्मत्वं दृश्यते तस्य कथमयज्ञकाण्डत्वमिति । उच्यते । तत्राप्यनन्तर्भावाद्ˇ649ब्रह्मत्वस्यसाधारणत्वात् । बह्वृचब्राह्मणे यजुर्ब्राह्मणे छान्दोग्यˇ650ब्राह्मणे च ब्रह्मत्वं दृश्यतेˇ651[REF???] । अत एव `ब्रह्मत्वं चापी'ति व्यासैरपिशब्दः प्रयुक्तः । यथा त्रिषु यज्ञकाण्डेषु ऋग्यजुःसामाख्येषु ब्रह्मत्वमुक्तं तथाऽथर्ववेदेऽप्युक्तमित्यर्थः652। अत एव सर्वेषु कल्पसूत्रेषु कल्पसूत्रकारैर्ब्रह्मत्वमुक्तम् [REF???] । इदानीन्तनाः सर्वे याज्ञिका अपि स्वस्वसूत्रोक्तमेव ब्रह्मत्वमनुतिष्ठन्ति नाथर्ववेदोक्तम् । अत एवापस्तम्बसत्याषाढादयो `यज्ञं व्याख्यास्याम' इत्युपक्रम्य `स त्रिभिर्वेदैर्विधीयते ऋग्वेदयजुर्वेदसामवेदै'रिति सूत्रयन्ति653। किं च श्रुतिरप्ययज्ञकाण्डत्वमेवाह।
`अ॒यं य॒ज्ञः सम॑सदद्ध॒विष्मा॑न् ।
ऋ॒चा साम्ना॒ यजु॑षा दे॒वता॑भिः ॥
तेन॑ लो॒कान्त्सूर्यव॑!209047तो जयेम ।
इन्द्र॑स्य स॒ख्यम॑मृत॒त्वम॑श्याम्'॥ इति [TB 3.7.6.13-14]।
अन्यदपि654 `यदृ॒चा साम्ना॒ यजु॑षा । प॒शू॒नां चर्मन्ह॒॑!209185विषा॑ दिदी॒क्ष' इत्यादि [TB 3.7.14.1]। ननु तस्यायज्ञकाण्डत्वे `भोजयेद्यस्त्वथर्वाणमि'ति पूर्वोक्तशातातपवचनस्य [REF???] का गतिरिति चेन्मैवम् । तत्राप्य-नन्तर्भावाद्655 अथर्ववेदस्यायज्ञकाण्डत्वेऽपि वेदत्वाविशेषादुपनिषत्काण्डानां तत्र बाहुल्यात् तेऽपि देवपितृकर्मसु भोजनीया वन्द्या एवेत्यलं प्रासङ्गिकविचारेण । प्रकृतमनुसरामः ।
Dostları ilə paylaş: |
|
|