Salutation to holy Ga eśa



Yüklə 3,53 Mb.
səhifə5/16
tarix02.11.2017
ölçüsü3,53 Mb.
#26878
1   2   3   4   5   6   7   8   9   ...   16

[¤ 29]

अथ स्मृतय उदाह्रियन्ते । तत्र माधवीये मनुः -

`ब्रह्मद्वेषो वेदनिन्दा कूटसाक्ष्यं सुहृद्वधः210

गर्हितान्नाद्ययोर्जग्धिः211 सुरापानसमानि षट् ॥'212

याज्ञवल्क्यः -

`पङ्क्तिभेदी वृथापाकी213 नित्यं ब्राह्मणनिन्दकः ।

अत्याशी वेदविक्रेता पञ्चैते ब्रह्मघातका'214 इति ॥

मनुस्मृतौ वेदब्राह्मणनिन्दकानां215 सुरापतुल्यत्वमुक्तं याज्ञवल्क्येन ब्रह्म-तुल्यत्वमिति विवेकः । वृथापाकिनो लक्षणं शातातप आह -

`यो हि हित्वा विवाहाग्निं गृहस्थ इति मन्यते ।

अन्नं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः'216 इति ॥

वेदविक्रयिणः स्वरूपं ऋग्विधानकारः शौनक आह-

`प्रख्यापनं प्राध्ययनं प्रश्नपूर्वं प्रतिग्रहः।

याजनाध्यापनं वादःषड्विधो वेदविक्रय'217 इति॥

अत्र याजनशब्देन असद्याजनं ग्राह्यम्। अन्यथा यज्ञलोपप्रसङ्गात् । अध्यापनं तु भृतकाध्यापनमेव। अन्यथा अध्ययनलोपापत्तेः218। ब्राह्मण-तिरस्कारप्रायश्चित्तमाह पाराशरः219

`हुंकारं ब्राह्मणस्योक्त्वा त्वंकारं च गरीयसः ।

स्नात्वा तिष्ठन्नहःशेषमभिवाद्य प्रसादयेत्' [PārDŚ 12.52]

मनुस्तु `स्नात्वाऽनश्नन्नि'त्याह [MnS 11.204]। अन्यत्समानम् । एवं सहस्रशः स्मृतिवाक्यानि वेदब्राह्मणपरिवादशीलानां प्रायश्चित्तबोधकानि सन्ति । तद्वत्पुराणवाक्यान्यपि बहूनि सन्तीति ज्ञेयम् ।
Now we shall offer [supporting citations from] Sm_ti texts. Manu, as quoted in the [Parāśara-]mādhavīya, says: ÒHatred of Brāhma_as, denigration of the Vedas, false testimony, murder of a friend, and consumption of unfit or forbidden foods, - these six acts are as [sinful] as drinking of liquor.Ó Yāj–avalkya says: Òone who differentiates between Brāhma_as sitting in a row, one who cooks food in vain, one who always denigrates Brāhma_as, one who eats beyond limit, and the one who sells the Veda - these five are killers of Brahman (= Veda).Ó While the Manusm_ti says that the denigrators of the Vedas and Brāhma_as are equal to wine-drinkers, Yāj–avalkya says that they are equal to killers of Brahman (= Veda). This is the difference. Śātātapa defines a person who ‘cooks in vain’: ÒHe who abandons the fire of the wedding-ceremony and yet considers himself to be a householder is said to be a person who cooks in vain. One should not eat food cooked by him.Ó Śaunaka, the author of the _gvidhāna, explains the nature of a seller of the Veda: ÒMaking the Veda known, commencement of recitation, acceptance upon questioning, officiating [for another], teaching, and debating - these are the six ways of selling the Veda.Ó Here, ‘officiating’ refers to officiating for an undeserving person. Otherwise, there could be no sacrifices. ‘Teaching’ refers only to teaching as a servant. Otherwise, there could be no study of the Veda. Parāśara [PārDŚ 12.52] has explained the expiation for insulting a Brāhma_a: ÒHaving used a challenging expression (hu_kāra) to a Brāhma_a and having used a [disrespectful 2nd person singular] ‘you’ to a senior person, one should bathe and stand [in place] for the rest of the day [in expiation]. Then one should appease [the offended person] by offering salutations.Ó Manu [MnS 11.204] says Òone should bathe and fast for the rest of the day.Ó The rest of the verse is identical. Thus there are thousands of Sm_ti citations that declare expiations for those who are in the habit of speaking ill of the Vedas and Brāhma_as. Similarly, one should know that there are many such Purā_a citations.
[¤ 30]

ननु पूर्वं प्रतिज्ञातं सर्वेषु वेदेषु विद्यमानानि220 सर्ववेदप्रशंसापराणि वाक्यान्युदाहरिष्याम इति । इदानीं तान्यनुदाहृत्यैव व्यवस्था कृता जपा-द्यनुष्ठाने ऋग्वेदस्य प्राधान्यं होमादिरूपे यजुर्वेदस्येति । सत्यमुक्तं सौ-कर्यार्थं संक्षिप्य व्यवस्था कृता इतःपरं वाक्योदाहरणपूर्वं पुनर्विचारयामः । तत्र ऋक्प्रशंसोक्ता221 यजुर्वेदे । `यद्वै य॒ज्ञस्य॒ साम्ना॒ यजु॑षा क्रि॒यते॑ शिथि॒लं तद्यदृ॒चा तद्दृ॒ढमि'ति [TS 6.5.10.12] । साम्ना यजुषा वा यज्ञस्य यदङ्गमनुष्ठीयते तन्मन्दम् । ऋचा यत्क्रियते तत्प्रशस्तमिति तात्पर्यार्थः । किं च सर्ववेदगतब्राह्मणेषु विश्वासार्थमृगुदाहरणमेव दृश्यते222`तदेत-दृषिः223 पश्यन्नभ्यनूवाच वृ॒त्रस्य॑ त्वा श्व॒सथा॒दीष॑माणा॒'224[AB 12.9 citing RV 8.96.7] इति । `तदुक्तमृषिणा गर्भे॒ नु सन्'[AĀ 2.5.1.14 citing RV 4.27.1] `तदे॒तदृ॒चाभ्यु॑क्तमृ॒चो अ॒क्षरे॑ प॒रम'225[TA 2.11.1 citing RV 1.164.39] इत्यादि।
Previously you had promised that you were going to cite statements praising all the Vedas that are found in all the different Vedic texts. Now, without citing such statements, you have made a determination that the _gveda has primary importance in recitation etc. and that the Yajurveda has primary importance in offering of oblations [into the fire].
Your question is proper. For the sake of simplicity, we made such a quick determination. Now, we will consider the same question again with citations of [Vedic] statements.
The praise of the _gveda is seen in the Yajurveda [TS 6.5.10.12]: ÒWhatever [part] of the sacrifice that is carried out with [the recitation of] a Sāman or a Yajus becomes loose, while [the part] carried out with a _k becomes firm.Ó This ultimately means that carrying out a component of a sacrifice with a Sāman or a Yajus is unintelligent, while carrying it out with a _k is preferred [lit. praiseworthy].
Moreover, in the Brāhma_as of all Vedas, only _k verses are cited to reaffirm [a point]. [We offer following instances.] ÒSeing this, the sage spoke [the verse, RV 8.96.7]: ‘Fleeing from the snort of V_tra, [all gods who were your friends abandoned] you.’Ó [AĀ 2.5.1.14, citing RV 4.27.1]: ÒThus it is said by the sage, ‘still being in the womb, ...’ [TA 2.11.1, citing RV 1.164.39].Ó
[¤ 31]

अथ यजुर्वेदप्राशस्त्य226बोधकवाक्यान्येवं श्रूयन्ते227

`ऋ॒चां त्व॒ः पोष॑मास्ते पुपु॒ष्वान्

गा॑य॒त्रं त्वो॑ गायति॒228 शक्व॑रीषु ।

ब्र॒ह्मा त्वो॒ वद॑ति जातवि॒द्यां229

य॒ज्ञस्य॒ मात्रां॒ वि मि॑मीत उ त्व' [RV 10.71.11] इति230

इयमृङ्निरुक्तकारैर्व्याख्याता[NR 1.8]231
[¤ 32]
अन्यदपि श्रूयते । `तस्य यजु॑रेव॒ शिरः । ऋग्दक्षि॑णः प॒क्षः । सामोत्त॑रः प॒क्षः232'[TU 2.3.1]। काठकेऽपि233`सर्वा॒गति॑र्याजु॒षी है॒व शश्व॑दि'ति [TB 3.12.9.1]`धा॒न्य॑मसि धिनु॒हि दे॒वानित्या॑ह । ए॒तस्य॒ यजु॑षो वी॒ˇˇˇर्ये॑ण । याव॒देका॑ दे॒वता॑ का॒मय॑ते॒ याव॒देका॑ । ताव॒दाहु॑तिः प्रथते । न हि तदस्ति॑। यत्ताव॑दे॒व स्यात् । याव॑ज्जु॒होती॑'ति [TB 3.2.6.3-4]। अथ सामप्रशंसा । `यथा वाव स्तोत्रमेवं शस्त्रम्' [AB 10.5, 29.10] `साम ज्यायान्वा234 अतो मम महिमे'ति [AB 12.12]। तथा चाश्वलायनसूत्रे [1.7.6] `प्रदक्षिण-मग्निमुदकुम्भं च त्रिः परिणयञ्जपत्यमोऽहमस्मि सा त्वं सा त्वमस्यमोऽहं द्यौरहं पृथिवी त्वं सामाहमृक्त्व'मित्यादि । एवमेकाग्निकाण्डेऽपि235 `सा॒माह॒मस्म्यृक्त्व'मिति [ŚB 14.9.4.19, BU 6.4.19; TB 3.7.1.9] साम्नः पुंस्त्वमृचः स्त्रीत्वं च प्रतिपादितम् । एवं ब्राह्मणेऽपि -`सामाहमृक्त्वं तावेह संवहावहा' इति236[AB 40.4]। श्रौतसूत्रेऽपि - `स्तोत्रमग्रे शस्त्रा-देषेति237 प्रोक्त उद्गातुर्हिंकार' [ĀśŚS 5.10] इत्यादि स्ववेदोक्तशस्त्रापेक्षया238 सामवेदोक्तस्तोत्रस्य मुख्यत्वं प्रतिपादितम् । कथमहो239 आश्वलायनाचार्यैः स्ववेदपक्षपातः240 परित्यक्तस्तदन्यः स्वीकृत इति । श्रुतिबलादिति ब्रूमः । ये महर्षयः शौनकादयः केवलं श्रुतिशरणा एव ते । तथा तदनुसारिणो241 माधवाचार्यप्रभृतयोऽपि । तस्माद्वेदशास्त्रतात्पर्यज्ञानां न पक्षपातस्तदनभि-ज्ञानामेव पक्षपातो दृष्टः242
[¤ 33]

अस्तु पक्षपातकथा । स्तोत्रस्य शस्त्रात्पूर्वभावित्वे श्रुतिः । `स्तु॒तस्य॑ स्तु॒तम॒स्यूर्ज॒'-[TS 3.2.7.1]-मित्यादिर्याजमानकाण्डे243 स्तोत्रानुमन्त्रणमन्त्रः पूर्वमुक्तः । `श॒स्त्रस्य॑ श॒स्त्र'-[TS 3.2.7.1]-मित्यादिः शस्त्रानुमन्त्रणमन्त्र-स्ततः परमुक्तः । एतन्मन्त्रब्राह्मणमपि244 `स्तु॑तश॒स्त्रयो॒र्दोह॒मवि॑द्वा॒न् यज॑त॒' इति निन्दा ततः परं `य ए॑नयो॒र्दोहं॑ वि॒द्वान्यज॑त॒' [TS 3.2.7.3] इति प्रशंसा च श्रूयते । ऐतरेयब्राह्मणेऽपि । `अथ यत्स्तुवन्ति245 च शंसन्ति च तेन स्तोमभागाश्छन्दोभागा'246[AB 7.8] इति ।
[¤ 34]

ननु य`दृचैव हौत्रं क्रियते यजुषाऽऽध्वर्यवं साम्नोद्गीथ'मिति247[AB 25.8] श्रूयते । निरुक्तेऽपि `यदेनमृग्भिः शंसन्ति यजुर्भिर्यजन्ति सामभिः स्तुवन्ती'ति248[NR 13.7] ऋग्यजुःसामोक्तशंसनयजनस्तवनकर्मणां249 क्रमो250 दृश्यते । श्रुतिसूत्रादिविरोधपरिहारः कथमिति चेन्नैष दोषः । पूर्वोक्तवाक्यानां कर्मानुष्ठानपरत्वमनन्तरोक्तानां तु तत्तद्वेदोक्तकर्ममात्र-परत्वमित्यविरोधः । अत एव सूत्रकार आह । `स्तुतस्य स्तुतमसीति स्तोत्रमनुमन्त्रयते251 शस्त्रस्य शस्त्रमसीति शस्त्रमिन्द्रियावन्तो वनामह इत्युभयत्रानुषजती'ति pŚS 12.17.17-18] । ननु माधवाचार्यैर्यज्ञविषये यजुर्वेदस्य प्राथम्यमृग्वेदस्य तदुत्तरभावित्वं सामवेदस्य ऋग्वेदोत्तरभावित्व-मिति ऋग्वेदोपोद्घातभाष्ये [REF???] प्रतिपादितं तथैव वेदत्रयं क्रमेण व्याख्यातम् । अत्र तु ऋगपेक्षया साः प्राथम्यं कथमिति मैवम्252 । नैष दोषः । तैस्तु सत्यमेवोक्तं [REF???] सोमयागदिने सुत्यासंज्ञके साम्नः प्राधान्यं तदन्यत्र दर्शपूर्णमासादिसर्वहविर्यज्ञेषु सोमाङ्गेष्टिपशुषु च प्रवर्ग्येऽग्निचितौ च ऋग्वेदोक्तहौत्रस्यैव प्राधान्यमित्यविरोधः। `मुख्यत्वाद्भूयस्त्वं253 बलीय' इति सत्याषाढसूत्रात् [SŚS 3.8.33] सोमयागस्य कर्मभूयस्त्वात्फलभूयस्त्वमिति न्यायेन मुख्यत्वेपि254 तदितरेषां दर्शपूर्णमासादीनां भूयस्त्वाद्यावज्जीवश्रुत्या255ऽत्यन्तं नित्यत्वाच्च तेषु च प्रायेण सामवेदोक्तौद्गात्राभावात्256 यजुर्वेदानन्तर्यमृग्वेदस्य तदानन्तर्यं सामवेदस्येति सिद्धम्257 । यजुर्वेदे हौत्रब्राह्मणेऽपि सामप्राशस्त्यं श्रूयते । `दे॒वा वै नर्चि न यजु॑ष्यश्रयन्त॒ ते साम॑न्ने॒वाश्र॑यन्त॒ हिं क॑रोति॒ सामै॒वाक॒रि'ति [TS 2.5.7.1]। सामिधेन्यादौ यो हिंकारस्तस्य सामत्वमुक्तम्258 । सामिधेनीब्राह्मणेऽपि `अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒माऽ॒!114222 आ या॑हि वी॒तय॒ इत्या॑ह रथन्त॒रस्यै॒ष वर्ण॒स्तं त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह वामदे॒व्यस्यै॒ष वर्णो॑!114241 बृ॒हद॑ग्ने सु॒वीर्य॒मित्या॑ह बृह॒त ए॒ष वर्णो॒ यदे॒तं तृ॒चम॒न्वाह॑ य॒ज्ञमे॒व तत्साम॑न्वन्तं करोती'ति259[TS 2.5.8.1] । यो यज्ञावयवः सामरहितः स यज्ञ एव न260 भवति तदर्थ`मग्न आयाही'ति तृचं होता261 ब्रूयात्तेन रथन्तरं वामदेव्यं बृहदिति सामत्रयोपेतं यज्ञं होता संपादयतीत्यर्थः । अग्न्युपस्थानयाजमानकाण्डेऽपि262 `अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒मोप॑प्र॒यन्तो॑ अध्व॒रमित्या॑ह॒ स्तोम॑मे॒वास्मै॑ युनक्ती'ति [TS 1.5.7.1]। स्तोम-शब्दस्त्रिवृदादिस्तोत्रे263 रूढः । अग्निहोत्रब्राह्मणेऽपि च264`अय॑ज्ञो॒ वा ए॒षः। यो॑ऽसा॒मा। च॒तुरुन्न॑यति। चतु॑रक्षर ँ!115339 रथन्त॒रम् । र॒थ॒न्त॒रस्यै॒ष वर्ण॑!115358ः । उ॒परी॑व हरति / अ॒न्तरि॑क्षं वामदे॒व्यम् । वा॒म॒दे॒व्यस्यै॒ष वˇर्णा॑!115390265। द्विर्जुहो॑!115500ति । द्व्य॑क्षरं बृ॒हत् । बृ॒ह॒त ए॒ष वˇर्ण॑ः। अ॒ग्निहो॒त्रमे॒व तत्साम॑न्वत्करोती'ति [TB 2.1.5.6-7]। ननु हिंकारो यजुः। अग्न आयाहीत्यादय266 ऋग्विशेषाः । उन्नयनादयः क्रियाविशेषास्तेषां सामत्वमिति267 । एतत्सर्वं सोपपत्तिकमग्रे वक्ष्यामः ।

[¤ 35]

अथाथर्वणवेदप्राशस्त्यबोधकानि वाक्यानि । गोपथब्राह्मणे । `अद्भ्यः स्थावरजङ्गमो भूतग्रामः सम्भवति तस्मात्

सर्वमापोमयं भूतं सर्वं भृग्वङ्गिरोमयम् ।

अन्तरैते त्रयो वेदा भृग्वङ्गिरसमाश्रिता'268

इति [GB 1.1.29] । भृग्वङ्गिरसमथर्वाङ्गिरस इत्यर्थः । ऋग्यजुःसामाख्यास्त्रयो वेदा आथर्वणवेदमाश्रिता इत्यर्थः269 । अन्यत्स्पष्टम् । तत्रैवान्यच्छक्तयते। `भृग्वङ्गिरोविदा संस्कृतोऽन्यान् वेदानधीयीत नान्यत्र संस्कृतो भृग्वङ्गिरसमधीयीते'ति270[GB 1.1.29]। संस्कृत उपनीत इत्यर्थः । अन्य-दृजुः । किं च `अथर्वाङ्गिरसो ह यो वेद स वेद सर्वमि'ति [GB 1.1.29]। अथर्ववेदाध्यायी सर्वज्ञ इत्यर्थः । एवमेव मन्वादिसर्वधर्मशास्त्रेषु पुराणादिषु च सर्ववेदप्राशस्त्यबोधकवाक्यानि गद्यपद्यरूपाणि बहून्युपलभ्यन्ते । तानीह विस्तरभयान्नोदाहृतानि । तस्मात् सर्वोऽपि वेदः प्रशस्ततम271 इति सिद्धम्। अत एव पूर्वं विषयविशेषतया सर्वेषां वेदानां प्रधानत्वमुपसर्जनत्वं च यत् प्रतिपादितं तदपि प्रशस्ततममेवेति सिद्धम् । किं च सर्वज्ञैर्माधवाचार्यैरपि ऋग्वेदस्य यजुर्वेदस्य च क्रमेण सर्ववेदाध्ययनतत्पारायणब्रह्मयज्ञजपादौ यज्ञाद्यनुष्ठाने272 च प्राधान्यं प्रतिपादितम् । पारिशेष्यात्सामाथर्वणोरपि273 तत्तद्वेदोक्तसामविधानोक्तानु-ष्ठानाथर्वणोक्ताभिषेकपूजादिरूपानुष्ठानयोःप्राधान्यं च ज्ञापितम् । अस्मिन् प्रकरणेऽपि तथैव निर्णीतम् ।

[¤ 36]

ननु को यजुर्वेदोऽत्र प्रधानत्वेन ग्राह्य इत्युच्यते । किमर्थमयं संशयः, प्रसिद्ध एव तैत्तिरीयाख्यो यः पूर्वं भाष्यकारैर्माधवाचार्यैर्व्याख्यातः । स एव ग्राह्यः । ननु वाजसनेयि274शाखात्वेन प्रसिद्धो यः शुक्लयजुर्वेदः स कुतो न ग्राह्य इत्युच्यते। सोऽपि ग्राह्य एव,नेति को ब्रूते तस्यापि वेदत्वाविशेषात्। तर्हि स एव ग्राह्यः सर्वैर्ब्राह्मणैस्तस्य शुक्लत्वादिति चेत् । नैतदुचितं वाजसनेयि275शाखाया यद्यपि शुक्लत्वमस्तु तथापि मुख्ययजुर्वेदलक्षणाभावात् न मुख्यत्वम्276 । किं मुख्ययजुर्वेदलक्षणमिति चेत्। त्रिगुणत्वमिति ब्रूमः। किं नाम त्रिगुणत्वं, कुत्रैतत्प्रतिपादितमिति चेच्छृणु । बह्वृचाचार्यैः शौनकैश्चरणव्यूह277शास्त्रे यजुर्वेदलक्षणमुक्तम् । तथा हि ।

मन्त्रब्राह्मणयोर्वेदस्त्रिगुणं यत्र पठ्यते ।

यजुर्वेदः स विज्ञेयो ह्यन्ये शाखान्तराः स्मृता' इति278

अस्यार्थोऽपि चरणव्यूहव्याख्याकृद्भिरेवं व्याख्यातः । `एकस्मिन्नेवानुवाके प्रपाठके वा मन्त्रपाठो ब्राह्मणपाठश्च यत्र दृश्यते स यजुर्वेदस्तदन्ये यजुर्वेदावान्तरभेदा'279 इत्यर्थः । तस्माद् वाजसनेयि280संहितायां ब्राह्मणपाठो न दृश्यते ब्राह्मणे शतपथाख्ये ऋग्यजुर्मन्त्राणां पाठो वा । एतदेवाभिप्रेत्य बृहदारण्यकभाष्ये वंशब्राह्मणे281 श्रीमच्छङ्करभगवत्पादैः`शुक्लानि यजू षीँ!120505'त्यस्य वाक्यस्य `अव्यामिश्राणि ब्राह्मणेने'ति[Śa_kara on BU 6.5.3] व्याख्यातम् । किं च माधवाचार्यैरपि वाज-सनेयि282संहिताभाष्योपोद्घातप्रकरणे `व्यवस्थितप्रकरणत्वात्तच्छाखायाः शुक्लत्वमव्यवस्थितप्रकरणत्वात्तैत्तिरीयशाखायाः कृष्णत्वमि'त्युक्तम्283 । शङ्करभगवत्पादैरपि `शुक्लपदस्यापौरुषेयत्वमि'ति284 बृहदारण्यकभाष्ये व्याख्यातम् । तत्तु वेदसामान्यस्य विद्यत एव । अन्यथा शुक्लयजुषो मुख्यत्वे तत्परित्यज्य प्रथमत एव कृष्णयजुषो व्याख्यानं285 कथं स्यात् । तस्मात्त्रिगुणत्वात्तैत्तिरीयशाखैव286 मुख्ययजुर्वेद इति सिद्धम् ।

[¤ 37]

ननु मैत्रायणीयशाखाया अपि मुख्ययजुर्वेदत्वमस्तु तस्या अपि शौनका-चार्योक्तलक्षणस्य त्रैगुण्यस्य विद्यमानत्वादिति287 । मैवं, यतोऽयं निर्णयो गोपथब्राह्मणश्रुत्यैव कृतः । तथा हि [GB 1.1.29] `किं देवतमित्यृचा-मि'त्युपक्रम्य क्रमेण288 ऋग्यजुःसामाथर्वणां दैवत289ज्योतिश्छन्दःस्थानानि प्रतिपाद्य तत्तद्वेदाद्यारम्भवाक्यानि क्रमेणैवं पठितानि290 । कथं पठितानीति चेदुच्यते। `अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् । होता॑रं रत्न॒धात॑ममित्येवमादिं कृत्वा ऋग्वेदमधीयत'291 इति । तदनन्तरं `इषे त्वोर्जे त्वा वायव स्थोपायव स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण इत्येवमादिं कृत्वा यजुर्वेदमधीयत' इति292 । ततोऽ`ग्न आयाहि वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषीत्येवमादिं293 कृत्वा सामवेदमधीयत' इति294 । ततः `शं नो देवीरभिष्टय इत्येवमादिं कृत्वाथर्ववेदमधीयत' इति । पादमात्रग्रहणमथर्ववेदारम्भवाक्यस्य कथमिति चेन्नैष दोषः । स्ववेदत्वात्संहितारम्भे अस्या ऋचः समग्रपाठाच्चेति बोध्यम्295 । भवतु चैवं प्रकृते किमायातमित्याह । यजुर्वेदारम्भवाक्ये `वायवः स्थे'त्यनन्तर`मुपायवः स्थे'ति पाठात्कण्वा माध्यन्दिनाश्च व्यावृत्ताः । `इषे त्वे'त्यनन्तरम् `ऊर्जे त्वे'ति पाठात् मैत्रायणीया व्यावृत्ताः296 । पारिशेष्यात्तैत्तिरीया एव मुख्ययजुर्वेदिन इति सिद्धम् । कथम् निरुक्तानां त्रयाणां व्यावृत्तिरित्युच्यते । कण्वानां प्रथमशाखिनां पाठस्तु `इषे त्वोर्जे त्वा वायवः स्थ ० देवो व'297 इत्यादि । माध्यन्दिनास्तु `इखे त्वे'ति षकारस्थाने खकारं पठन्ति । अन्यत्समानं काण्वैः । मैत्रायणीयास्तु `इषे त्वा सुभूताये'त्यादि पठन्ति । `ऊर्जे त्वे'ति पदद्वयं न पठन्ति । तस्माद्गोपथब्राह्मणोक्तपाठानुसारिणस्तैत्तिरीयाएवयजुर्वेदिनःसिद्धाः। तदन्ये यजुर्वेदावान्तरभेदिन इति पर्यवसितोऽर्थः ।

[¤ 38]

एवं श्रुत्या शौनकाचार्यवाक्येन च तैत्तिरीयशाखाया एव मुख्य-यजुर्वेदत्वे सिद्धेऽपि वेदवाक्यमृषिवाक्यं चानादृत्य केवलमुच्छृङ्खला ये केचिदृक्शाखिनः सामशाखिनो298 वा यजुषाध्वर्यवमिति वाक्यमात्रबलेना-स्माकं सर्वे याजुषाः समाना एवेति विवदन्त उपलभ्यन्ते । अन्येऽपि299 केचिन्निरुक्ता एवैवं वदन्ति । अस्माकं बह्वृचादीनामग्निहोत्राद्यनुष्ठानार्थं300 यजुर्वेदापेक्षा, तथा सति यया कया च शाखयाऽग्निहोत्रादिकंकर्तव्यम्। कुतः । सर्वे याजुषाः समाना एव । तथापि तैत्तिरीयशाखायाः शिष्टैः परिगृहीतत्वादस्माभिर्दाक्षिणात्यैः पञ्चद्राविडैः सर्वैरपि तैत्तिरीयशाखैव परिगृहीतेति301। तदपि सम्यक्302। कुतः । दृष्टे सत्यदृष्टकल्पनाया अन्याय्यत्वात्303 । पूर्वमुदाहृतश्रुतिस्मृतितात्पर्यपर्यालोचनायां तैत्तिरीय-शाखाया मुख्ययजुर्वेदत्वं दृश्यत एव304 । किं च प्राथम्यादप्येतच्छाखाया मुख्यत्वं दृश्यते विष्णुपुराणभागवतादिषु।तदपि संक्षिप्याग्रे305 पुराण-वाक्यान्युदाहृत्य वक्ष्यामः। त्रिगुणत्वाद्गोपथब्राह्मणपाठाच्चास्याः शाखाया एव मुख्ययजुर्वेदत्वे सिद्धेऽपि306 केचिदनभिज्ञा मत्सरिणो वा यजुर्वेदः पूर्वं वाजसनेयिशाखावदव्यामिश्रतया स्थितस्तदनन्तरं तैत्तिरीयशाखायाः सार-स्वतपाठवशान्मन्त्रब्राह्मणयोर्व्यामिश्रतया त्रिगुणत्वं संपन्नमिति वदन्ति । तदत्यन्तमसमीचीनम् । कुतः। अनेक307कल्पनापत्तेरार्ष308वाक्यविरोधाच्च । तथा हि । चरणव्यूहे तावच्छौनकाचार्यैर्यजुर्वेदस्यषडशीतिर्भेदा भवन्ती-त्युपक्रम्य मन्त्रब्राह्मणयोर्वेद309 इति यजुर्वेदस्य लक्षणं कृतम् । तत्परित्यज्य तैत्तिरीयशाखाया एवेदं लक्षणमिति नवीना कल्पना । किं च तस्या एव लक्षणमिति चेत्सर्वज्ञस्य शौनकस्यैकस्यामेव तैत्तिरीयशाखायां पक्षपातकल्पनेत्यादयो बहवो दोषाः प्रसज्येरन्310। किं च शङ्करभगवत्पादैरपि `शुक्लानि यजू षीँ!127658'त्यस्य वाक्यस्याव्यामिश्राणि ब्राह्मणे-नेति बृहदारण्यकभाष्ये [on BU 6.5.3] व्याख्यातम् । अनेनैव हेतुना पारिशेष्यादितराणि यजू ँ!127736षि व्यामिश्राणीति सिद्धम् । तथैव माधवाचार्यै-रपि प्रतिपादितम् [Bhā_ya on VS(K), VSM edn, vol. I, p. 2] । शौनकादिभिरपि मुख्ययजुर्वेदलक्षणं त्रिगुणत्वमुक्तम्311 । एवं च सत्यनादिसिद्धस्य त्रिगुणत्व312यजुर्वेदलक्षणस्याधुनिककल्पनायां313 बहवो दोषा बहुश्रुतिस्मृतिवाक्यविरोधाश्चस्युः। तस्मात् त्रिगुणत्वलक्षणं निर्विवादमिति सिद्धम् ।

Yüklə 3,53 Mb.

Dostları ilə paylaş:
1   2   3   4   5   6   7   8   9   ...   16




Verilənlər bazası müəlliflik hüququ ilə müdafiə olunur ©muhaz.org 2024
rəhbərliyinə müraciət

gir | qeydiyyatdan keç
    Ana səhifə


yükləyin